SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । वा द्विषातोऽनः पुस् ।४।२।९१॥ द्विष आदन्ताच्च परस्य शितोऽवितोऽन: स्थाने वा पुस् स्यात् । अद्विषुः, अद्विषन् ; अयुः, अयान् ।।७१।। सिज्-विदोऽभुवः ।४।२।९२॥ सिच्प्रत्ययाद् विदश्च धातो: परस्य अनः पुस् स्यात्, न चेद् भुव: पर: सिच् स्यात् । अकार्षुः, अविदुः । अभुव इति किम् ? अभूवन् ।।७२।। युक्त-जक्षपञ्चतः ।४।२।९३॥ कृतद्वित्वाद् जक्षपञ्चकाच्च परस्य शितोऽवितोऽन: पुस् स्यात् । अजुहवु:, अजक्षुः, अदरिद्रुः, अजागरु:, अचकासुः, अशासुः ।।७३।। अन्तो नो लुक् ।४।२।९४॥ द्वयुक्त-जक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुक् स्यात् । जुह्वति, जुह्वत् ; जक्षति, जक्षत् ; दरिद्रति, दरिद्रत् ।।७४।। शौ वा ।४।२।९५॥ द्वयुक्त-जक्षपञ्चकात् परस्याऽन्तो न: शिविषये लुग् वा स्यात् । ददति ददन्ति कुलानि ; जक्षति, जक्षन्ति ; दरिद्रति, दरिद्रन्ति ।।७५।। - इनश्चाऽऽतः ।४।२।९६॥ द्वयुक्त-जक्षपञ्चतः श्नश्च शित्यवित्यातो लुक् । मिमते, दरिद्रति, क्रीणन्ति । अवितीत्येव, अजहाम्, अक्रीणाम् ।।७६।। एषामी व्यञ्जनेऽदः ।४।२।९७॥ व्युक्त-जक्षपञ्चच्छ्नामात: व्यञ्जनादावी: स्यात्, न तु दासंज्ञस्य । मिमीते, लुनीत: । व्यञ्जन इति किम् ? मिमते । अद इति किम् ? दत्तः, धत्तः ॥७७|| इर्दरिद्रः।४।२।९८॥ दरिद्रो व्यञ्जनादौ शित्यवित्यात इ: स्यात् । दरिद्रितः । व्यञ्जन इत्येव, दरिद्रति ||७८|| भियो नवा ।४।२।९९॥ भियो व्यञ्जनादौ शित्यविति इर्वा स्यात् । बिभित:, बिभीतः ॥७९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy