________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
वित्तं धन-प्रतीतम् ।४।२।८२॥ विन्दते: परस्य क्तस्य नत्वाभावो निपात्यते, धन-प्रतीतयोः पर्यायश्चेत् । वित्तं धनम्, वित्त: प्रतीतः । धन-प्रतीतमिति किम् ? विन्नः ॥६२।।
हु-धुटो हेर्धिः ।४।२।८३॥ होर्युडन्ताच्च परस्य हेर्धिः स्यात् । जुहुधि, विद्धि ॥६३॥
शासस्-हनः शाध्येधि-जहि ।४।२।८४॥ शास्-अस्-हनां ह्यन्तानां यथासंख्यं शाध्येधि-जहयः स्युः । शाधि, एधि, जहि ।।६४॥
अतः प्रत्ययाल्लुक् ।४।२।८५॥ - धातो: परो योऽदन्तः प्रत्ययस्तत: परस्य हेर्लुक् स्यात् । दीव्य । अत इति किम् ? राघ्नुहि । प्रत्ययादिति किम् ? पापहि ॥६५।।
असंयोगादोः ।४।२।८६॥ असंयोगात् परो य उस्तदन्तात् प्रत्ययात् परस्य हेर्लुक् स्यात् । सुनु । असंयोगादिति किम् ? अक्ष्णुहि । ओरिति किम् ? क्रीणीहि ॥६६।।
वम्यविति वा ।४।२।८७॥ असंयोगात् परो य उस्तदन्तस्य प्रत्ययस्य लुग् वा स्यात्, वमादौ अविति परे। सुन्व:, सुनुवः सुन्म:, सुनुम: । अवितीति किम् ? सुनोमि। असंयोगादित्येव, तक्ष्णुवः ।।६७||
कृगो यि च ।४।२।८८॥ कृग: परस्योतो यादौ वमि चाऽविति लुक् स्यात् । कुर्युः, कुर्वः, कुर्मः ॥६८॥
अतः शित्युत् ।४।२।८९॥ शित्यविति [य उस्तनिमित्तस्य] कृगोऽस्य उ: स्यात् । कुरु । अवितीत्येव, करोति ।।६९।।
इना-ऽस्त्योर्लुक् ।४।२।९०॥ नस्य अस्तेश्वाऽस्य शित्यविति लुक् स्यात् । रुन्धः, स्त: । अत इत्येव, आस्ताम् ।।७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org