________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
किम् ? यातः । अन्तस्थेति किम् ? सातः । आत इति किम् ? च्युतः । धातोर्व्यञ्जनेति किम् ? निर्यातः । अख्या-ध्य इति किम् ? ख्यातः, ध्यातः । आत: परस्येति किम् ? दरिद्रित: ।।५४।।
पू-दिव्यञ्चे शा-ऽद्यूता-ऽनपादाने ।४।२।७२॥ एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्य: परस्य क्तयोस्तो न् स्यात् । पूना यवा:, आयूनः, समक्नौ पक्षौ । नाशा-ऽद्यूता-ऽनपादान इति किम् ? पूतम्, द्यूतम्, उदक्तं जलम् ।।५५||
क्षेः क्षी चाऽध्यार्थे ।४।२।७४॥ घ्यणोऽर्थो भाव-कर्मणी, ततोऽन्यस्मिन्नर्थे क्तयोस्त: क्षेः परस्य न् स्यात्, तद्योगे क्षेः क्षीश्च । क्षीणः, क्षीणवान् मैत्रः । अध्यार्थे इति किम् ? क्षितमस्य ५६|
__ऋ-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा ।४।२।७६॥ एभ्य: परस्य क्तयोस्तो न् वा स्यात् । ऋणम्, ऋतम् ; ह्रीण:, ह्रीणवान्, ह्रीतः, ह्रीतवान् ; प्राणः, घ्रातः ; ध्राणः, ध्रातः ; त्राणः, त्रातः ; समुन्नः, समुत्तः ; नुन्नः, नुत्तः ; विन्न:, वित्तः ।।५७||
दुगोरूच्च ।४।२।७७॥ दु-गूभ्यां परस्य क्लयोस्तो न् स्यात्, तद्योगे दु-ग्वोरूच्च । दूनः । दूनवान् । गून: गूनवान् ॥५८।।
क्षै-शुषि-पचो म-क-वम् ।४।२।७८॥ एभ्यः परस्य क्तयोस्तो यथासङ्ख्यं म-क-वा: स्युः । क्षामः, क्षामवान् ; शुष्कः, शुष्कवान् ; पक्व:, पक्ववान् ।।५९||
निर्वाणमवाते ।४।२।७९॥ अवाते कर्तरि निरपूर्वाद् वाते: परस्य क्ततो न् निपात्यते । निर्वाणो मुनिः । अवात इति किम् ? निर्वातो वात: ।।६०||
भित्तं शकलम् ।४।२।८१॥ भिदेः परस्य क्तस्य नत्वाभावो निपात्यते, शकलपर्यायश्चेत् । भित्तं शकलमित्यर्थः । शकलमिति किम् ? भिन्न भित्तम् ।।६१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org