________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
एषां ये क्ङिति आ वा स्यात् । खायते, खन्यते ; सायते, सन्यते ; प्रजाय, प्रजन्य । क्ङिीत्येव, सान्यम् ॥४५॥
तनः क्ये |४|२|६३ ॥
१०४
तन: क्ये आ वा स्यात् । तायते तन्यते ॥ ४६ ॥ तौ सनस्तिक | ४|२|६४॥
"
सनस्तिकि तौ लुगातौ वा स्याताम् । सतिः, सातिः, सन्तिः ||४७|| वन्याङ् पञ्चमस्य |४|२|६५||
पञ्चमस्य वनि आङ् स्यात् । विजावा, घ्वावा ||४८ || अपाच्चायश्चिः क्तौ |४|२|६६॥
अपपूर्वस्य चायते : तौ चिः स्यात् । अपचितिः ||४९|| ह्लादो ह्लद् क्तयोश्च |४|२|६७||
ह्लादेः क्त-क्तवन्त्वोः क्तौ च ह्लद् स्यात् । ह्लन्न:, ह्लन्नवान्, ह्नत्तिः ||५०| ऋ - ल्वादेरेषां तो नोsप्रः | ४|२| ६८ ||
पृवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषां क्ति-क्त क्तवन्तूनां तो न् स्यात् । तीर्णः, तीर्णः तीर्णवान् लूनि:, लून, लूनवान् धूनि धून, धूनवान्। अप्र इति किम् ? पूर्त्तिः, पूर्त्तः, पूर्त्तवान् ॥५१॥
1
"
रदादमूर्च्छ-मदः क्तयोर्दस्य च |४| २|६९ ॥
"
मूर्च्छि - मदिवर्जाद् रदान्तात् परस्य क्तयोस्तः तद्योगे धातुदश्च न् स्यात् । पूर्णः ; पूर्णवान् ; भिन्न भिन्नवान् । अमूर्च्छमद इति किम् ? मूर्त्तः, मत्त: । रदांत(दात्त ?) स्येति किम् ? चरितम्, मुदितम् ॥५२॥ सूयत्याद्योदितः |४|२|७०॥
सूयत्यादिभ्यो नवभ्य ओदिभ्यश्च परस्य क्तयोस्तो न् स्यात् । सून:,
सूनवान् ; दून: दूनवान् ; लग्न: लग्नवान् ॥५३॥
7
व्यञ्जनान्तस्थाऽऽतोख्या-ध्यः ।४।२|७१॥
ख्या-ध्यावर्जस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था, तस्याः परो य आः, तस्मात् परस्य क्तयोस्तो न् स्यात् । स्त्यानः, स्त्यानवान् । व्यञ्जनेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org