________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
वेरयः ।४।२७४॥ वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां य्वृन्न स्यात् । ववौ । अय इति किम् ? उवाय ॥६१||
अविति वा ।४।१।७५॥ वेगोऽयन्तस्याऽविति परोक्षायां य्वृद्वा न स्यात् । ववुः, ऊवुः ॥६२।।
ज्यश्च यपि ।४।१।७६॥ ज्यो वेगश्च यपि य्वन्न स्यात् । प्रज्याय, प्रवाय ॥६३।।
व्यः ।४।१७७॥ व्यो यपि य्वृन्न स्यात् । प्रत्याय ।।६४।।
संपरेर्वा ।४।१७८॥ आभ्यां परस्य व्यो यपि वृद्वा न स्यात् । संव्याय, संवीय ; परिव्याय, परिवीय ।।६।।
यजादि-वचेः किति ।४।१७९॥ __ यजादेवचेश्च सस्वरान्तस्था किति परे य्वृत् स्यात् । ईजुः, ऊयु: । कितीति किम् ? यक्षीष्ट ।।६६।।
स्वपेर्यङ्-डे च ।४।११८०॥ स्वपेर्यङि डे किति च परे सस्वरान्तस्था य्वृत् स्यात् । सोषुप्यते, असूषुपत्, सुषुप्सति ।।६७।।
ज्या-व्यधः क्ङिति ।४।१८१॥ __ ज्या-व्यधोः सस्वरान्तस्था किति ङिति य्वृत् स्यात् । जीयात्, जिनाति, विध्यात्, विध्यति ॥६८||
व्यचोऽनसि ।४।२८२॥ व्यचे: सस्वरान्तस्था अस्वर्जे क्ङिति य्वृत् स्यात् । विचति । अनसीति किम् ? उरुव्यचा: ॥६९।।
वशेरयङि ।४।११८३॥ वशे: सस्वरान्तस्था अयङि क्ङिति वृत् स्यात् । उष्टः, उशन्ति । अयङीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org