SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ किम् ? वावश्यते ।।७०|| श्री सिद्धहेमचन्द्रशब्दानुशासनम् । ग्रह-व्रस्च- भ्रस्ज- प्रच्छः |४|१|८४ ॥ एषां सस्वरान्तस्था क्ङिति वृत् स्यात् । जगृहु:, गृह्णाति ; वृक्ण:, वृश्चति ; भृष्ट:, भृज्जति ; पृष्टः, पृच्छा ॥ ७१ ॥ व्ये - स्यमोर्यङि | ४|११८५ ॥ व्येग्-स्यमोः सस्वरान्तस्था यङि वृत् स्यात् । वेवीयते, सेसिमीति ||७२|| चाय की |४|१|८६ ॥ चायो यङि की स्यात् । चेकीतः ||७३ || द्वित्वे ह्वः |४|१|८७॥ ह्वेगो द्वित्वविषये सस्वरान्तस्था य्वृत् स्यात् । जुहूषति ||७४ || णौ ङ - सनि । ४ । ११८८ ॥ ९५ ह्वेगः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृत् स्यात् । अजूहवत्, जुहावयिषति ||७५ || Jain Education International श्वेर्वा ||४|१|८९|| श्वेः सस्वरान्तस्था ङ- सन्परे णौ विषये वृद्वा स्यात् । अशूशवत्, अशिश्वयत् ; ++ शुशावयिषति, शिश्वाययिषति ||७६|| वा परोक्षा - यङि |४|११९०॥ श्वेः सस्वरान्तस्था परोक्षा- यङोय्र्वृद्वा स्यात् । शुशाव, शिश्वाय । शोशूयते, शेश्वीयते ।।७७|| प्यायः पी । ४ । १।९१ ॥ प्यायेः परोक्षा-यङोः पी: स्यात् । आपिप्ये, आपेपीतः || ७८ || क्तयोरनुपसर्गस्य |४|१|९२॥ अनुपसर्गस्य प्यायेः क्त-क्तवन्त्वोः पीः स्यात् । पीनम्, पीनवन् मुखम् । अनुपसर्गस्येति किम् ? प्रप्यानो मेघः || ७९ || स्फाय: स्फी वा | ४|११९४ ॥ स्फायतेः क्तयोः परयोः स्फीर्वा स्यात् । स्फीतः, स्फीतवान् ; स्फातः, For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy