SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । किम् ? अततक्षत् । णावित्येव, अचकमत । असमानलोप इति किम् ? अचकथत् ॥५२।। लघोर्दीर्घोऽस्वरादेः ।४।१६४॥ अस्वरादेर्डपरेऽसमानलोपे णौ द्वित्वे पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दीर्घः स्यात् । अचीकरत् । लघोरिति किम् ? अचिक्कणत् । अस्वरादेरिति किम् ? औMनवत् ।।५३॥ स्मृ-दृ-त्वर-प्रथ-मद-स्तृ-स्पशेरः ।४।१६५॥ एषामसमानलोपे ङपरे गौ द्वित्वे पूर्वस्याऽत् स्यात् । असस्मरत्, अददरत्, अतत्वरत्, अपप्रथत्, अमम्रदत्, अतस्तरत्, अपस्पशत् ।।५४।। अस्याऽऽदेराः परोक्षायाम् ।४।१।६८॥ अस्यां द्वित्वे पूर्वस्याऽऽदेरत आ: स्यात् । आदुः, आरतुः । अस्येति किम् ? ईयुः । आदेरिति किम् ? पपाच ।।५५।। अनातो नश्चान्त ऋदाद्यशौ-संयोगस्य ।४।१।६९॥ ऋदादेरश्नोते: संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्यादेरात्स्थानादन्यस्याऽस्य आ: स्यात्, कृतातो नोऽन्तश्च । आनृधु:, आनशे, आनञ्ज । ऋदादीति किम् ? आर । अनात इति किम् ? आञ्छ ॥५६।। भू-स्वपोरदुतौ ।४।१।७०॥ भू-स्वपोः परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुतौ स्याताम् । बभूव, सुष्वाप ||५७|| . ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ।४।१७१॥ एषां परोक्षायां द्वित्वे पूर्वस्य इ: स्यात् । जिज्यौ, संविव्याय, विव्याध, विव्याच, विव्यथे ।।५८।। यजादि-वश्-वचः सस्वरान्तस्था य्वृत् ।४।१।७२॥ यजादेर्वश्-वचोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था इ-उ-ऋरूपा आसन्ना स्यात् । इयाज, उवाय, उवाश, उवाच ।।५९|| + न वयो य ।४।१।७३॥ वेगो वयेर्य परोक्षायां य्वृत् न स्यात् । अयु: ।।६०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy