________________
९२
स्वोपज्ञरहस्यवृत्तिविभूषितं
पम्फाल्यते । अनोदिति किम् ? चंचूर्ति, पम्फुल्ति ।।४४||
. ऋमतां री ४१५५॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्त: स्यात् । नरीनृत्यते ।।४५।।
रि-रौ च लुपि ।४।११५६॥ कमतां यङो लुपि द्वित्वे पूर्वस्य रि-रौ रीश्चान्त: स्यात् । चरिकर्ति, चर्कर्त्ति, । चरीकर्त्ति ।।४६॥
निजां शित्येत् ।४।११५७॥ निजि-विजि-विषां शिति द्वित्वे पूर्वस्यैत् स्यात् । नेनेक्ति, वेवेक्ति, वेवेष्टि । शितीति किम् ? निनेज ॥४७||
पृ-भृ-मा-हाङामिः ।४।१।५८॥ एषां शिति द्वित्वे पूर्वस्य इ: स्यात् । पिपर्त्ति, इयर्त्ति, बिभर्ति, मिमीते, जिहीते । हाङिति किम् ? जहाति । शितीत्येव, पपार ।।४८||
सन्यस्य ।४।१५९॥ द्वित्वे पूर्वस्यातः सनि परे इ: स्यात् । पिपक्षति । अस्येति किम् ? पापचिषते ॥४९॥
ओर्जा-ऽन्तस्था-पवर्गेऽवर्णे।४।श६०॥ द्वित्वे पूर्वस्योतोऽवर्णान्ते जा-ऽन्तस्था-पवर्गे परे सनि इ: स्यात् । जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, [पिपावयिषति,] मिमावयिषति । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? बुभूषति ।।५०॥
स्वपो णावुः ।४।१६२॥ स्वपेरें सति द्वित्वे पूर्वस्योत् स्यात् । सुष्वापयिषति । स्वपो णाविति किम् ? स्वापं चिकीर्षति शिष्वापयिषति । स्वपो णौ सति द्वित्व इति किम् ? सोषोपयिषति ।।५।।
असमानलोपे सन्वल्लघुनि ।।४।०६३॥ न विद्यते समानस्य लोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे, पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्यं स्यात् । अचीकरत्, अजीजवत्, अशिश्रवत् । लघुनीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org