SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् | 1 अघोषे शिटः |४|१|४५॥ द्वित्वे पूर्वस्य शिटस्तत्सम्बन्धिन्येवाऽघोषे लुक् स्यात् । चुश्च्योत । अघोष इति किम् ? सत्रौ ||३६|| क-ङश्व-ञ् |४|११४६ ॥ - द्वित्वे पूर्वयोः क-ङोर्यथासङ्ख्यं च औ स्याताम् । चकार, डुवे ||३७|| न कवतेर्यङः |४|१|४७॥ यङन्तस्य कवतेर्द्वित्वे सति स्य कश्वो न स्यात् । कोकूयते खरः । कवतेरिति किम् ? कौति - कुवत्योः चोकूयते । येङ इति किम् ? चुकुबे ||३८|| आ-गुणावन्यादेः |४|१|४८ ॥ ९१ यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आ - गुणौ स्याताम् । पापच्यते, लोलूयते । अन्यादेरिति किम् ? वनीवच्यते, जंजन्यते ||३९|| वञ्च-स्रंस-ध्वंस-भ्रंश- कस - पत-पद- स्कन्दोऽन्तो नी । ४ । १५० ॥ एषां यङन्तानां द्वित्वे पूर्वस्य नीरन्तः स्यात् । वनीवच्यते, सनीस्रस्यते, दनीध्वस्यते बनीभ्रश्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्क 118011 मुरतोऽनुनासिकस्य |४|११५१ ॥ आत् परो योऽनुनासिकस्तदन्तस्य यङन्तस्य द्वित्वे पूर्वस्य मुरन्तः स्यात् । बम्भण्यते । अत इति किम् ? तेतिम्यते । अनुनासिकस्येति किम् ? पापच्यते ॥४१॥ जप - जभ - दह - दश- भञ्ज - पशः |४|१|५२॥ एषां यङन्तानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । जञ्जप्यते, जञ्जभ्यते, दन्दह्यते, दन्दश्यते, बम्भज्यते, पम्पश्यते ॥ ४२ ॥ चर-फलाम् ।४।१।५३॥ एषां यङतानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । चञ्चूर्यते, पम्फुल्यते ||४३|| ति चोपान्त्याऽतोऽनोदुः ||४|११५४ || Jain Education International यङन्तानां चर-फलां तादौ च प्रत्यये उपान्त्यस्याsत उः स्यात्, न च तस्यौत् । चञ्चूर्यते, पम्फुल्यते, चूर्त्तिः, प्रफुल्ति: । अत इति किम् ? चञ्चार्यते, For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy