SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं __ जेर्गिः सन्-परोक्षयोः ।४।१॥३५॥ __ सन्-परोक्षयोर्द्वित्वे सति पूर्वात् परस्य जेर्गि: स्यात् । जिगीषति, विजिग्ये ।।२६॥ चेः किर्वा ।४।१॥३६॥ सत्-परोक्षयोर्द्वित्वे सति पूर्वात् परस्य चे: किर्वा स्यात् । चिकीषति, चिचीषति ; चिक्ये, चिच्ये ।।२७|| पूर्वस्याऽस्वे स्वरे योरियुत् ।४।१॥३७॥ द्वित्वे सति य: पूर्वस्तत्सम्बन्धिनोरिवर्णोतोरस्वे स्वरे परे इयुवौ स्याताम् । इयेष, अरियति, उवोष । अस्व इति किम् ? ईषतुः । स्वर इति किम् ? इयाज ।।२८।। ऋतोऽत् ।४।१॥३८॥ द्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् । चकार ।।२९।। ह्रस्वः ॥४॥१॥३९॥ द्वित्वे सति पूर्वस्य ह्रस्व: स्यात् । पपौ ॥३०॥ ग-होर्जः।४।१४०॥ द्वित्वे सति पूर्वयोर्ग-होर्ज: स्यात् । जगाम, जहास ||३१|| द्युतेरिः ।४।१।४१॥ द्युतेर्द्वित्वे सति पूर्वस्य इ: स्यात् । दिद्युते ।।३२।। द्वितीय-तुर्ययोः पूर्वी ।४।१४२॥ द्वित्वे पूर्वस्य द्वितीय-तुर्ययोर्यथासङ्ख्यं पूर्वी आद्य-तृतीयौ स्याताम् । चखान, जझाम ॥३३॥ तिर्वा ष्ठिवः ।४।१४३॥ ष्ठिवेर्द्वित्वे पूर्वस्य द्वितीयस्य तिर्वा स्यात् । तिष्ठेव, टिष्ठेव ॥३४।। व्यञ्जनस्याऽनादेर्लुक् ।४।१।४४॥ द्वित्वे पूर्वस्य व्यञ्जनस्याऽनादेर्लुक् स्यात् । जग्ले । अनादेरिति किम् ? आदेर्मा भूत्, पपाच ।।३५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy