________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
अत इति किम् ? दिदिवुः । सेट्थवीत्येव, पपक्थ ।।१६।।
तृ-त्रप-फल-भजाम् ।४।१।२५॥ एषामवित्परोक्षा-सेट्थवो: स्वरस्य ए: स्यात्, न च द्विः । तेरुः, तेरिथ, त्रेपे, फेलु:, फेलिथ ; भेजुः, भेजिथ ।।१७।।
वा श्रन्थ-ग्रन्थो न्लुक् च ।४।१२७॥ अनयो: स्वरस्यावित्परोक्षा-सेट्थवोरेर्वा स्यात्, तद्योगे च नो लुक्, न च द्विः । श्रेथु:, शश्रन्थुः ; श्रेथिथ, शश्रन्थिय । ग्रेथुः, जग्रन्थुः ; ग्रेथिथ, जग्रन्थिथ ।।१८॥
दम्भः ।४।१।२८॥ दम्भे: स्वरस्यावित्परोक्षायाम् ए: स्यात्, न च द्वि:, तद्योगे च नो लुक् । देभुः ।।१९।।
थे वा ।४।।२९॥ ___ दम्भे: स्वरस्य थवि एर्वा स्यात्, तद्योगे च नो लुक्, न च द्विः । देभिथ, ददम्भिथ ॥२०॥
न शस-दद-वादि-गुणिनः ।४।१॥३०॥ शसि-दद्योर्वादीनां [गुणिनां] च स्वरस्य एर्न स्यात् । विशशसुः, विशशसिथ ; दददे ; ववले ; विशशरु:, विशशरिथ ।।२१।।
हौ दः ।४।१।३१॥ दासंज्ञस्य हौ परे ए: स्यात्, न च द्वि: । देहि, धेहि ॥२२।।
देर्दिगिः परोक्षायाम् ।४।१॥३२॥ देङ: परोक्षायां दिगि: स्यात्, न च द्विः । दिग्ये ।।२३।।
पिबः पीप्य् ।४।१॥३३॥ ण्यन्तस्य पिबतेर्डे परे पीप्य् स्यात्, न च द्विः । अपीप्यत् ।।२४।।
अङे हि-हनो हो घः पूर्वात् ।४।१।३४॥ हि-हनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हो घ: स्यात् । प्रजिघाय, जंघन्यते । अङे इति किम् ? प्राजीहयत् ।।२५।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org