SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ८८ स्वोपज्ञरहस्यवृत्तिविभूषितं ज्ञश्च [४।२।३०] इति णौ ह्रस्वः ।।८।। ऋध ई ।४।११७॥ ऋध: सादौ सनि परे ई स्यात्, न चाऽस्य द्वि: । ईर्त्यति । सीत्येव, अर्दिधिषति ।।९।। दम्भो धिप्-धीप् ।४।१।१८॥ दम्भे: सि सनि धिप्-धीपौ स्यातां न चाऽस्य द्विः । धिप्सति, धीप्सति । सीत्येव, दिदम्भिषति ।।१०।। अव्याप्यस्य मुचेर्मोग्वा ।४।१।१९॥ मुचेरकर्मण: सि सनि मोक् वा स्यात्, न चाऽस्य द्वि: । मोक्षति, मुमुक्षति चैत्र: । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ॥११॥ मि-मी-मा-दामित् स्वरस्य ।४।१।२०॥ मि-मी-मा-दासंज्ञानां स्वरस्य सि सनि इत् स्यात्, न च द्विः । मित्सति, मित्सते, मित्सति, दित्सति, धित्सति ।।१२।। रभ-लभ-शक-पत-पदामिः ।४।१।२१॥ एषां स्वरस्य सि सनि इ: स्यात्, न च द्वि: । आरिप्सते, लिप्सते, शिक्षति, पित्सति, पित्सते । सीत्येव, पिपतिषति ।।१३।। राधेर्वधे ।४।०२२॥ राधेहिँसार्थस्य सि सनि स्वरस्य इ: स्यात्, न च द्वि: । प्रतिरित्सति । वध इति किम् ? आरिरात्सति ।।१४।। अवित्परोक्षा-सेट्थवोरेः ।४।।२३॥ राधेहिँसार्थस्याऽविति परोक्षायां थवि च सेटि स्वरस्य ए: स्यात्, न च द्विः । रेधुः, रेधिथ । अविदिति किम् ? अपरराध । वध इत्येव, आरराधतुः ||१५|| अनादेशादेरकव्यञ्जनमध्येऽतः ।४।।२४॥ अवित्परोक्षा-सेट्थवोपरयोर्योऽनादेशादिस्तत्सम्बन्धिनस्वरस्याऽतोऽसहायव्यञ्जनयोर्मध्यगतस्य ए: स्यात्, न च द्विः । पेचुः, पेचिथ, नेमुः, नेमिथ । अनादेशादेरिति किम् ? दिदिवतुः । एकव्यञ्जनमध्य इति किम् ? ततक्षिथ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy