________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
[ अथ चतुर्थोऽध्यायः ] [ प्रथमः पादः ] द्विर्धातुः परोक्षा- ङे, प्राक् तु स्वरे स्वरविधेः || ४ | १|१||
परोक्षायां ङे च परे धातुर्द्विः स्यात्, स्वरादौ तु द्वित्वनिमित्ते स्वरस्य कार्यात् प्रागेव । पपाच, अचकमत । धातुरिति किम् ? प्राशिश्रियत् । प्रागिति किम् ? चक्रतुः । स्वर इति किम् ? जेप्रीयते । स्वरविधेरिति किम् ? शुशाव । प्राक् तु स्वरे स्वरविधेरिति आद्विर्वचनमधिकारः ||१|| आद्योंऽश एकस्वरः |४|१|२||
धातोराद्य एकस्वरोऽवयवः परोक्षा - ङे परे द्विः स्यात् । जजागार, अचीकरत् ||२||
८७
सन् - यङश्च |४|१|३॥
सन्नन्तस्य यङन्तस्य चाऽऽद्य एकस्वरोंऽशो द्विः स्यात् । तितिक्षते, पापच्यते ॥ ३॥
स्वरादेर्द्वितीयः |४|११४॥
स्वरादेद्वयुक्तिभाजो द्वितीयोंऽश एकस्वरो द्विः स्यात् । अटिटिषति, अशाश्यते । प्राक् तु स्वरे स्वरविधेरित्येव, आटिटत् ||४|| न ब-द-नं संयोगादिः |४|१|५||
स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य ब-द-नाः संयोगस्याद्या न द्विः स्युः । उब्जिजिषति, अट्टिटिषते, उन्दिदिषति । संयोगादिरिति किम् ? प्राणिणिषति
॥५॥
अयि रः |४|१|६|
स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादी रो द्विर्न स्यात्, न तु रादनन्तरे यि । अर्चिचिषति । अयीति किम् ? अरार्यते ||६||
हवः शिति | ४|१|१२॥
जुहोत्यादयः शिति द्विः स्युः । जुहोति ||७||
ज्ञप्यापो ज्ञीपीपू, न च द्विः सि सनि | ४|१|१६ ॥ ज्ञपेरापेश्च सादौ सनि परे यथासङ्ख्यं ज्ञीपीपौ स्याताम्, नचाऽनयोरेकस्वरोंऽशो द्विः । ज्ञीप्सति, ईप्सति । सीति किम् ? जिज्ञपयिषति मारण- तोषण- निशाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org