SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ह्वादे: कर्त्तर्यद्यतन्यामात्मनेपदे वाऽङ् स्यात् । आह्वत, आह्वास्त ; अलिपत, अलिप्त ; असिचत, असिक्त ॥५९।। लदिद्-द्युतादि-पुष्यादेः परस्मै ।३।४।६४॥ लदितो द्युतादे: पुष्यत्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् स्यात् । अगमत् ; अद्युतत्, अरुचत् ; अपुषत्, औचत् । परस्मैपद इति किम् ? समगस्त ॥६०॥ ऋदिवि-स्तम्भू-मुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-ज्रो वा ।३।४॥६५॥ __ ऋदितः श्व्यादेश्च कर्त्तर्यद्यतन्यां परस्मैपदेऽङ् वा स्यात् । अरुधत्, अरौत्सीत् ; अश्वत्, अश्वयीत् ; अस्तभत्, अस्तम्भीत् ; अZचत्, अम्रोचीत्, अम्लुचत्, अम्लोचीत् ; अग्रुचत्, अग्रोचीत् ; अग्लुचत्, अग्लोचीत् ; अग्लुचत्, अग्लुञ्चीत् ; अजरत्, अजारीत् ।।६१।। जिच् ते पदस्तलुक् च ।३।४।६६॥ पद्यतेः कर्त्तर्यद्यतन्यास्ते परे त्रिच् स्याद्, निमित्ततस्य च लुक् । उदपादि । त इति किम् ? उदपत्साताम् ॥६२।। दीप-जन-बुधि-पूरि-ताय-प्यायो वा ।३।४।६७॥ एभ्यः कर्त्तर्यद्यतन्यास्ते परे जिच् वा स्यात्, तलुक् च । अदीपि, अदीपिष्ट ; अजनि, अजनिष्ट ; अबोधि, अबुद्ध ; अपूरि, अपूरिष्ट ; अतायि, अतायिष्ट ; अप्यायि, अप्यायिष्ट ॥६३।। भाव-कर्मणोः ।३।४।६८॥ सर्वस्माद् धातोर्भाव-कर्मविहितेऽद्यतन्यास्ते त्रिच् स्यात्, तलुक् च । आसि त्वया, अकारि कटः ।।६४।। स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशी:-श्वस्तन्यां जिट् वा ।३।४।६९॥ स्वरान्ताद् ग्रहादेश्च विहितासु भावकर्मजासु भिड् वा स्य-सिजाशी:-श्वस्तनीषु स्यात् । दायिष्यते, दास्यते ; अदायिष्यत, अदास्यत ; अदायिषाताम्, अदिषाताम् ; दायिषीष्ट, दासीष्ट ; दायिता, दाता । ग्राहिष्यते, ग्रहीष्यते ; अग्राहिषाताम, अग्रहीषाताम् ; ग्राहिषीष्ट ग्रहीषीष्ट ; ग्राहिता, ग्रहीता। दर्शिष्यते, द्रक्ष्यते ; प्रदर्शिषाताम्, अदृक्षाताम् ; दर्शिषीष्ट, दृक्षीष्ट ; दर्शिता, द्रष्टा । घानिष्यते, हनिष्यते ; अघानिषाताम्, अवधिषाताम् ; धानिषीष्ट, वधिषीष्ट ; जापत; . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy