SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अदृपत् ।।५०|| ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक् ।।४।५५॥ हशिडन्तानाम्युपान्त्याददृशोऽनिटोऽद्यतन्यां सक् स्यात् । अधुक्षत्, अविक्षत् । ह-शिट इति किम् ? अभैत्सीत् । नाम्युपान्त्यादिति किम् ? अधाक्षीत् । अनिट इति किम् ? अकोषीत् ।।५१।। श्लिषः ।३।४।५६॥ श्लिषोऽनिटोऽद्यतन्यां सक् स्यात् । आश्लिक्षत् कन्यां मैत्र: । अनिट इति किम् (इत्येव), अश्लेषीत् ।।५२।। नाऽसत्त्वाश्लेषे ।।४।५७॥ श्लिषोऽप्राण्याश्श्लेषार्थात् सक् न स्यात् । उपाश्लिषत् जतु च काष्ठं च । असत्त्वाश्लेष इति किम् ? व्यत्यश्लिक्षन्त मिथुनानि ॥५३।। णि-श्रि-द्रु-सु-कमः कर्तरि ङः ।३।४।५८॥ ण्यन्तात् श्र्यादेश्च कर्त्तर्यद्यतन्यां ङः स्यात् । अचीकरत्, अशिश्रियत्, अदुद्रुवत्, असुस्रुवत्, अचकमत । कर्तरीति किम् ? अकारयिषातां कटौ मैत्रेण ॥५४॥ धे-श्वेर्वा ।३।४।५९॥ आभ्यां कर्त्तर्यद्यतन्यां ङो वा स्यात् । अदधत्, अधात् ; अशिश्वियत्, अश्वत् । कर्तरीत्येव, अधिषातां गावौ वत्सेन ।।५५॥ शास्त्यसू-वक्ति-ख्यातेरङ् ।३।४।६०॥ एभ्यः कर्त्तर्यद्यतन्याम् अङ् स्यात् । अशिषत्, अपास्थत्, अवोचत्, आख्यत् । कर्त्तरीत्येव, अशासिषातां शिष्यौ गुरुणा ।।५६।। सर्त्यर्तेर्वा ।।४॥६॥ आभ्यां कर्त्तर्यद्यतन्याम् अङ्वा स्यात् । असरत्, असार्षीत् ; आरत्, आर्षीत् ।।५७|| ह्वा-लिप्-सिचः ।३।४।६२॥ एभ्य: कर्त्तर्यद्यतन्याम् अङ् स्यात् । आह्वत्, अलिपत्, असिचत् ।।५८।। वाऽऽत्मने ।३।४।६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy