________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
८१
परोक्षान्ता अनु प्रयुज्यन्ते । दयाञ्चक्रे, दयाम्बभूव, दयामास ; पलायाञ्चक्रे, आसाञ्चक्रे, कासाञ्चक्रे ॥४३॥
गुरुनाम्यादेरनृच्छूर्णोः ।३।४।४८॥ गुरु म्यादिर्यस्य तस्माद्धातोः, ऋणुवर्जात् परस्या: परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनु प्रयुज्यन्ते । ईहाञ्चक्रे, ईहाम्बभूव, ईहामास । गुर्विति किम् ? इयेष । नामीति किम् ? आनर्च । आदीति किम् ? निनाय । अनृच्छ्रपोरिति किम् ? आनर्छ, प्रोणुनाव ।।४४।।
जाग्रुष-समिन्धेर्नवा ।३।४।४९॥ एभ्यो धातुभ्यः परस्या: परोक्षाया आम् वा स्यात्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । जागराञ्चकार, जागराम्बभूव, जागरामास, जजागार ; ओषाञ्चकार, उवोष ; समिन्धाञ्चक्रे, समीधे ॥४५||
भी-ही-भृ-होस्तिव्वत् ।३।४॥५०॥ एभ्यः परस्या: परोक्षाया आम् वा स्यात्, स च तिव्वत्, आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । बिभयाञ्चकार, बिभयाम्बभूव, बिभयामास, बिभाय ; जिह्रयाञ्चकार, जिह्वाय ; बिभराञ्चकार, बभार ; जुहवाञ्चकार, जुहाव ॥४६॥
वेत्तेः कित् ।३।४।५१॥ वेत्तेः परस्या: परोक्षाया आम् किद् वा स्याद्, आमन्ताच्च कृभ्वस्तयोऽनु प्रयुज्यन्ते । विदाञ्चकार, विवेद ।।४७||
पञ्चम्याः कृग् ।३।४॥५२॥ वेत्ते: परस्या: पञ्चम्या: किदाम् वा स्यात्, आमन्ताच्च परः पञ्चम्यन्त: कृगनु प्रयुज्यते । विदाङ्करोतु, वेत्तु ।।४८।
सिजद्यतन्याम् ।।४।५३॥ अद्यतन्यां परस्यां धातो: पर: सिच् स्यान्नित्यम् । अनैषीत् ।।४९।।
स्पृश-मृश-कृष-तृप-दृपो वा ।३।४।५४॥ एभ्योऽद्यतन्यां सिज् वा स्यात् । अस्प्राक्षीत्, अस्पृक्षत् ; अम्राक्षीत्, अमृक्षत् ; अक्राक्षीत्, अकृक्षत् ; अत्राप्सीत्, अतृपत् ; अद्राप्सीत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org