SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अङ्गानिरसने णिङ् ।३।४।३८॥ अङ्गवाचिन: कर्मणो निरसनेऽर्थे पिङ् वा स्यात् । हस्तयते, पादयते ॥३५॥ पुच्छादुत्-परि-व्यसने ।३।४।३९॥ पुच्छात् कर्मण उदसने पर्यसने व्यसनेऽसने चार्थे णिङ् वा स्यात् । उत्पुच्छयते, परिपुच्छयते, विपुच्छयते, पुच्छयते ।।३६।। __भाण्डात् समाचितौ ।३।४।४०॥ भाण्डात् कर्मणः समाचितावर्थे णिङ् वा स्यात् । सम्भाण्डयते, परिभाण्डयते ॥३७|| चीवरात् परिधा-ऽर्जने ।३।४॥४१॥ अस्मात् कर्मण: परिधानेऽर्जने चार्थे णि वा] स्यात्। परिचीवरयते, चीवरयते ||३८|| णिज्बहुलं नानः कृगादिषु ॥३॥४॥४२॥ कृगादीनां धातूनामर्थे नाम्नो णिच् बहुलं स्यात् । मुण्डं करोति मुण्डयति च्छात्रम्, पटुमाचष्टे पटयति, वृक्षं रोपयति वृक्षयति, कृतं गृह्णाति कृतयति ।।३९।। व्रताद् भुजि-तनिवृत्त्योः ।३।४।४३॥ व्रतं शास्त्र(स्त्रि ?)तो नियमः, व्रताद् भुज्यर्थात् तन्निवृत्त्यर्थाच्च कृगादिष्वर्थेषु णिज्बहुलं स्यात् । पयो व्रतयति, सावद्यान्नं व्रतयति ॥४०॥ सत्या-ऽर्थ-वेदस्याः ।।४।४४॥ एषां णिच्सन्नियोगे आ: स्यात् । सत्यापयति, अर्थापयति, वेदापयति ।।४१|| धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् ।३।४।४६॥ अनेकस्वराद्धातो: परस्या: परोक्षायाः स्थाने आम् स्यात्, आमन्ताच्च परे कृभ्वस्तय: परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते। चकासाञ्चकार, चकासाम्बभूव, चकासामास । अनेकस्वरादिति किम् ? पपाच । अनुर्विपर्यास-व्यवहितनिवृत्त्यर्थः, तेन चकारचकासाम्, ईहांचैत्रश्चक्रे इत्यादि न स्यात् ॥४२।। दया-ऽया-ऽऽस्-कासः ।३।४॥४७॥ एभ्यो धातुभ्य: परस्या: परोक्षाया आम् स्यात्, आमन्ताच्च परे कृभ्वस्तय: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy