SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ७९ एव ङित् । अश्वति, गल्भते, क्लीबते, होडते ।।२५।। क्यङ् ।३।४।२६॥ कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यात् । हंसायते ।।२६।। ___ सो वा लुक् च ।३।४।२७॥ सन्तात् कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य च सो वा लुक् । पयायते, पयस्यते ।।२७|| ओजोऽप्सरसः ।३।४॥२८॥ आभ्यां कर्तुरुपमानाभ्यामाचारे क्यङ् वा स्यात्, सश्च लुक् । ओजायते, अप्सरायते ।।२८।। ज्यर्थे भृशादेः स्तोः ।।४।२९॥ भृशादेः कर्तुश्च्व्यर्थे क्यङ् वा स्यात्, यथासम्भवं स्तोर्लक् च । भृशायते, उन्मनायते, वेहायते । कर्तुरित्येव, अभृशं भृशं करोति । च्व्यर्थ इति किम् ? भृशो भवति ।।२९।। डाच्-लोहितादिभ्यः षित् ।३।४।३०॥ डाजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्च्व्यर्थे क्यङ् षित् स्यात् । पटपटायति, पटपटायते ; लोहितायति, लोहितायते । कर्तुरित्येव, अपटपटा पटपटा करोति । च्व्यर्थ इत्येव, लोहितो भवति ।।३०।। __ सुखादेरनुभवे ।३।४।३४॥ साक्षात्कारेऽर्थे सुखादेः कर्मण: क्यङ् वा स्यात् । सुखायते, दुःखायते ॥३१॥ शब्दादेः कृतौ वा ।३।४।३५॥ एभ्य: कर्मभ्यः कृतावर्थे क्यङ् वा स्यात् । शब्दायते, वैरायते ।।३२।। तपसः क्यन् ।३॥४॥३६॥ अस्मात् कर्मणः कृतावर्थे क्यन् वा स्यात् । तपस्यति ।।३३।। नमो-वरिवश्चित्रकोऽर्चा-सेवा-ऽऽश्चर्ये ।३।४।३७॥ एभ्य: कर्मभ्यो यथासंख्यमर्चादिष्वर्थेषु क्यन् वा स्यात्। नमस्यति, वरिवस्यति, चित्रीयते ।।३४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy