SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ لاه स्वोपज्ञरहस्यवृत्तिविभूषितं घानिता, हन्ता ॥६५॥ क्यः शिति ।३।४।७०॥ सर्वस्माद् धातोर्भाव-कर्मविहिते शिति क्य: स्यात् । शिष्यते त्वया, क्रियते कट: । शितीति किम् ? बभूवे ॥६६।। कर्त्तर्यनद्भ्यः शव् ।३।४।७१॥ अदादिवर्जाद् धातो: कर्तरि विहिते शिति शव् स्यात् । भवति । कर्त्तरीति किम् ? पच्यते । अनन्य इति किम् ? अत्ति ॥६७|| दिवादेः श्यः ।३।४।७२॥ दिवादे: कर्तृविहिते शिति श्य: स्यात् । दीव्यति, जीर्यति ॥६८॥ भ्रास-भ्लास-भ्रम-क्रम-क्लम-त्रसि-त्रुटि-लषि-यसि-संयसेर्वा ।३।४।७३॥ एभ्यः कर्तृविहिते शिति श्यो वा स्यात् । भ्रास्यते, भ्रासते ; भ्लास्यते, भ्लासते ; भ्राम्यति, भ्रमति ; क्राम्यति, क्रामति ; क्लाम्यति, क्लामति ; त्रस्यति, त्रसति ; त्रुट्यति, त्रुटति ; लष्यति, लषति ; यस्यति, यसति ; संयस्यति, संयसति ॥६९।। कुषि-रञ्जाप्ये वा परस्मै च ।३।४।७४॥ आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात्, तद्योगे श्यश्च । कुष्यति कुष्यते वा पादः स्वयमेव ; रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्त्तरीति किम् ? कुष्णाति पादं रोगः । रजति वस्त्रं शिल्पी । शितीत्येव, अकोषि ।।७।। स्वादेः इनुः ।३।४।७५॥ स्वादे: कर्तृविहिते शिति इनुः स्यात् । सुनोति, सिनोति ॥७१।। वाऽक्षः ।३।४॥७६॥ अक्ष: कर्तृविहिते शिति इनुर्वा स्यात् । अक्ष्णोति, अक्षति ॥७२।। तक्षः स्वार्थे वा ।३।४।७७॥ स्वार्थः तनुत्वम्, तवृत्तेस्तक्ष: कर्तृविहिते शिति इनुर्वा स्यात् । तक्ष्णोति, तक्षति । स्वार्थ इति किम् ? संतक्षति शिष्यम् ।।७३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy