________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
गुणक्रियाणामधिश्रयणादीनांक्रियान्तराव्यवधानेनसाकल्येनसंपत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्केदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम्, तद्विशिष्टार्थवृत्तेर्धातोर्व्यञ्जनादेरेकस्वराद् यङ् वा स्यात् । पापच्यते । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । भृशाभीक्ष्ण्य इति किम् ? पचति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि
11811
अटयर्त्ति सूत्रि - मूत्रि-सूच्यशूर्णोः | ३|४|१०॥
एभ्यो भृशा - ssभीक्ष्ण्यार्थवृत्तिभ्यो यङ् स्यात् । अटाटयते, अरार्यते, सोसूत्र्यते, मोमूत्र्यते, सोसूच्यते, अशाश्यते, प्रोर्णोनूयते ॥ १० ॥ गत्यर्थात् कुटिले | ३|४|११॥
व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे वर्त्तमानाद् धातोर्यङ् स्यात् । चङ्क्रम्यते । कुटिल इति किम् ? भृशं क्रामति ॥ ११ ॥
गृ-लुप-सद-चर-जप-जभ - दश - दहो ग
| ३|४|१२॥ गह्यर्थेभ्य एव एभ्यो यङ् स्यात् । निजेगिल्यते, लोलुप्यते, सासद्यते, चञ्चूर्यते, जञ्जप्यते, जञ्जभ्यते दन्दश्यते, दन्दह्यते । गर्ह्य इति किम् ? साधु जपति, भृशं निगिरति ||१२||
न गुणा - शुभ- रुचः | ३|४|१३॥
एभ्यो यङ् न स्यात् । निन्द्यं गृणाति, भृशं शोभते, भृशं रोचते ॥१३॥ बहुलं लुप् । ३|४|१४||
ङो लुप् बहुलं स्यात् । बोभूयते, बोभवीति । बहुलवचनात् कचिन्न भवति - लोलूया, पोपूया || १४ ||
अचि | ३|४|१५||
यङोऽचि परे लुप् स्यात् । चेच्यः ||१५||
७७
नोतः ।३।४।१६।।
उदन्ताद् विहितस्य यङोऽचि लुब् न स्यात् । रोरूयः || १६ || चुरादिभ्यो णिच् | ३|४|१७॥
एभ्यो धातुभ्यः स्वार्थे णिच् स्यात् । चोरयति । पदयते ||१७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org