SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ७६ स्वोपज्ञरहस्यवृत्तिविभूषितं [तृतीयाध्याये चतुर्थ: पाद:] गुपौ-धूप-विच्छि-पणि-पनेरायः ।।४।१॥ एभ्यो धातुभ्यः स्वार्थे आय: स्यात् । गोपायति, धूपायति, विच्छायति, पणायति, पनायति ।।१।। . कमेर्णिङ् ।३।४।२॥ कमे: स्वार्थे णिङ् स्यात् । कामयते ।।२।। ऋतेीयः ।३॥४॥३॥ ऋते: स्वार्थे ङीय: स्यात् । ऋतीयते ।।३।। अशवि ते वा ।३।४॥४॥ गुपादिभ्योऽशविषये ते आयादयो वा स्युः । गोपायिता, गोप्ता; कामयिता, कमिता ; ऋतीयिता, अर्त्तिता ।।४।। __ गुप्-तिजो गर्हा-क्षान्तौ सन् ।३।४।५॥ गुपो गर्हायां तिज: क्षान्तौ वर्त्तमानात् स्वार्थे सन् स्यात् । जुगुप्सते, तितिक्षते । गर्हा-क्षान्ताविति किम् ? गोपनम्, तेजनम् ।।५।। कितः संशय-प्रतीकारे ।३।४।६॥ कित: संशय-प्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति, व्याधिं चिकित्सति । संशयप्रतीकारे इति किम् ? केतयति ॥६॥ शान्-दान्-मान्-बधानिशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः ।३।४॥७॥ एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे सन् स्यात्, दीर्घश्चैषां द्वित्वे पूर्वस्येतः । शीशांसति, दीदांसति, मीमांसते, बीभत्सते । अर्थोक्ति: किम् ? अर्थान्तरे मा भूत्, निशानम्, अवदानम्, मानयति, बाधयति ।।७|| धातोः कण्ड्वादेर्यक् ।३।४।८॥ एभ्यो धातुभ्य: स्वार्थे यक् स्यात् । कण्डूयति, कण्डूयते, महीयते । धातोरिति किम् ? कण्डू: ।।८।। व्यञ्जनादेरेकस्वराद् भृशा-ऽऽभीक्ष्ण्ये यङ् वा ।३॥४॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy