SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [तृतीयाध्याये तृतीय: पाद:] वृद्धिराऽऽरैदौत् ।३।३॥१॥ आ आर् ऐ औ एते प्रत्येकं वृद्धि: स्युः । मार्टि, कार्यम्, नायकः, औपगव: ।।१।। गुणोऽरेदोत् ।३।३।२॥ एते प्रत्येकं गुण: स्युः । कर्ता, चेता, स्तोता ।।२।। क्रियार्थो धातुः ।३।३॥३॥ कृतिः क्रिया पूर्वापरीभूता, साऽर्थो यस्य स धातु: स्यात् । भवति, अत्ति, गोपायति, जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ।।३।। . अवौ दा-धौ दा ।३।३।५॥ दाधारूपौ धातू अवितौ दा स्याताम् । दाम् -प्रणिदाता । देङ्प्रणिदयते । डुदांग - प्रणिददाति । दों - प्रणिद्यति । ट्धे - प्रणिधयति । डुधांग् - प्रणिदधाति । अवाविति किम् ? दांव -दातं बर्हिः । दैव् - अवदातं मुखम् ।।४|| वर्तमाना-तिव् तस् अन्ति, सिव् थस् थ, मिव् वस् मस् ; ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥३॥३॥६॥ इमानि वचनानि वर्तमाना स्युः ।।५।। सप्तमी-यात् याताम् युस्, यास् यातम् यात, याम् याव याम 3; ईत ईयाताम् ईरन्, ईथास् ईयाथाम् ईध्वम्, ईय ईवहि ईमहि ।।३।७॥ इमानि वचनानि सप्तमी स्युः ।।६।। पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव् आव आमव् ; ताम् आताम् अन्ताम्, स्व आथाम् ध्वम्, ऐव् आवहैव् आमहैव् ।३।३।८॥ इमानि वचनानि पञ्चमी स्युः ।।७।। ह्यस्तनी-दिव् ताम् अन्, सिव् तम् त, अम्व् व म ; त आताम् अन्त, थास् आथाम् ध्वम्, इ वहि महि ।३।३।९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy