________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
७१
अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे स: स्यात् । सब्रह्म साधूनाम्। अकाल इति किम् ? सहपूर्वाह्नं शेते । अव्ययीभाव इति किम् ? सहयुध्वा ॥५५।।
समानस्य धर्मादिषु ।३।२।१४९॥ धर्मादावुत्तरपदे समानस्य सः स्यात् । सधर्मा, सनामा ॥५६।।
दृक्-दृश-दृक्षे ।३।२।१५१॥ एषूत्तरपदेषु समानस्य स: स्यात् । सदृक्, सदृशः, सदृक्षः ||५७||
__ अन्य-त्यदादेराः ।३।२।१५२॥ अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आ: स्यात् । अन्यादृक्, अन्यादृशः, अन्यादृक्षः ; त्यादृक्, त्यादृशः, त्यादृक्षः ; अस्मादृक्, अस्मादृशः, अस्मादृक्षः ||५८||
इदं-किमीत्-की।३।२।१५३॥ दृगादावुत्तरपदे इदम्-किमौ यथासङ्खचम् ईत्-कीरूपौ स्याताम् । ईदृक्, ईदृशः, ईदृक्षः ; कीदृक्, कीदृशः, कीदृक्षः ।।५९।।
अनञः क्त्वो यप् ।३।२।१५४॥ नञोऽन्यस्मादव्ययात् पूर्वपदात् परं यदुत्तरपदं तदवयवस्य क्त्वो यप् स्यात् । प्रकृत्य । अननं इति किम् ? अकृत्वा, परमकृत्वा । उत्तरपदस्येत्येव, अलं कृत्वा ॥६॥
पृषोदरादयः ।३।२।१५५॥ एते साधवः स्यु: । पृषोदरः, बलाहकः ॥६१।। .
तृतीयस्य अध्यायस्य द्वितीय: पाद: समाप्त: । मङ्गलमस्तु ।
Jain Education International
For Private & Personal Use Only,
www.jainelibrary.org