SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । खित्यनव्यया - sरुषो मोsन्तो ह्रस्वश्व | ३ | २|१११॥ स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोsन्तो यथासम्भवं ह्रस्वादेशश्च स्यात् । ज्ञंमन्यः, कालिंमन्या, अरुन्तुदः । खितीति किम् ? ज्ञमानी | अनव्ययेति किम् ? दोषामन्यमहः ||३७|| लोकम्पूण - मध्यन्दिना - ऽनभ्यामित्यम् ॥ ३२॥११३॥ एते कृतपूर्वपदमन्ता निपात्यन्ते । लोकम्पृणः, मध्यन्दिनम्, अनभ्याशमित्यः ||३८|| भद्रोष्णात् करणे | ३|२|११६॥ आभ्यां परे करणे उत्तपदे मोऽन्तः स्यात् । भद्रंकरणम् | उष्णंकरणम् ||३९|| न वाऽखित्कृदन्ते रात्रेः । ३।२।११७॥ | खिद्वर्जकृदन्ते उत्तरपदे रात्रेर्मोऽन्तो वा स्यात् । रात्रिंचर:, रात्रिचरः । खिद्वर्जनं किम् ? रात्रिंमन्यमहः । कृदन्त इति किम् ? रात्रिसुखम् । अन्तग्रहणं किम् ? राता ॥४०॥ ६९ अषष्ठीतृतीयादन्याद् दोऽर्थे | ३|२| ११९ ॥ अषष्ठ्यन्तादतृतीयान्ताच्चान्यादर्थे उत्तरपदे [द्] अन्तो वा स्यात् । अन्यदर्थः, अन्यार्थः । षष्ठ्चादिवर्जनं किम् ? अन्यस्यान्येन वार्थोऽन्यार्थः || ४१|| सर्वादि-विश्वग्-देवाड्डद्रिः स्वयञ्चौ | ३ |२| १२२॥ सर्वादेर्विष्वग्-देवाभ्यां च परः क्किबन्ते + + अञ्चावुत्तरपदे डद्रिरन्तः स्यात्. । सर्वद्रीच:,द्वद्रयङ् ; विष्वद्रीचः, देवद्रयङ् । क्कीति किम् ? विष्वगञ्चनम् ||४२|| सह- समः सप्रि-समि | ३ |२| १२३ ॥ I अनयोः स्थाने क्विबन्ते अञ्चावुत्तरपदे यथासंख्यं सध्रि-समी स्याताम् । सध्यङ्, सम्यङ् । क्वयञ्चावित्येव, सहाञ्चनम् ||४३|| तिरसस्तिर्यति । ३।२।१२४॥ अकारादौ व्यञ्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् ? तिरश्चः ||४४|| Jain Education International नञत् ।३।२।१२५॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy