________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
श्वावित्, नीरुक्, ऋतीषट्, जलासट, परीतत् ।।२८||
घञ्युपसर्गस्य बहुलम् ।३।२।८६॥ घञन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घ: स्यात् । नीक्लेदः, नीवारः । बाहुलकात् कचिद् वा - प्रतीवेशः, प्रतिवेश: । कचिन्न - निषादः, विषादः ।।२९।।
दस्ति ।३।२।८८॥ दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्त्तम्, वीत्तम् । द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्ता ।।३०||
एकादश-षोडश-षोडत्-षोढा-षड्ढा ।३।२।९१॥ एकादयो दशादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकादश, षोडश, षड् दन्ता अस्य षोडन्, षोढा, षड्ढा ।।३१।। द्वित्र्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ ।३।२।९२॥
एषां यथासंख्यमेते प्राक् शतात् संख्यायामुत्तरपदे स्युः, न तु अशीतौ बहुव्रीहिविषये च । द्वादश, त्रयोविंशतिः, अष्टाविंशतिः । प्राक् शतादिति किम् ? द्विशतम्, त्रिशतम्, अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः, द्वित्राः ॥३२॥
चत्वारिंशदादौ वा ।३।२।९३॥ द्वित्र्यष्टानां प्राक् शताच्चत्वारिंशदादावुत्तरपदे यथासंख्यं द्वा-त्रयो-ऽष्टा वा स्युः, अनशीतिबहुव्रीहौ । द्वाचत्वारिंशत्, द्विचत्वारिंशत् ; त्रयश्चत्वारिंशत्, त्रिचत्वारिंशत् ; अष्टाचत्वारिंशत्, अष्टचत्वारिंशत् ।।३३॥
उदकस्योदः पे-धि-वास-वाहने ।३।२।१०४॥ उदकस्य पेषमादावुत्तरपदे उद: स्यात् । उदपेषं पिनष्टि, उदधिर्घटः, उदवासः, उदवाहनः ॥३४॥
नाम्युत्तरपदस्य च ।३।२।१०७॥ उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुद: स्यात् । उदमेघः, उदवाह:, उदपानम्, उदधिः, लवणोदः, कालोदः ॥३५।।
ते लुग् वा ।३।२।१०८॥ संज्ञाविषये पूर्वोत्तरपदे लुग् वा स्यात् । देवदत्त: । देव: । दत्त: ।।३६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org