SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ऊङः |३|२|६७॥ ऊङन्तस्य तरादौ [ब्रुवादौ ] चोत्तरपदे स्त्र्येकार्थे वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा, ब्रह्मबन्धूतरा ; कद्रुब्रुवा, कद्रब्रुवा ॥२०॥ महतः कर- घास - विशिष्टे डाः । ३।२।६८ || करादावुत्तरपदे महतो डा वा स्यात् । महाकरः, महत्करः ; महाघास:, महद्घास : ; महाविशिष्टः, महद्विशिष्टः ॥ २१॥ स्त्रियाम् ||३|२|६९ | स्त्रीवृत्तेर्महतः करादावुत्तरपदे नित्यं डाः स्यात् । महाकरः, महाघासः, महाविशिष्टः ||२२|| ६७ जातीयैकार्थेऽच्चेः | ३|२|७० ॥ महतोऽच्व्यन्तस्य जातीयरि एकार्थे चोत्तरपदे डाः स्यात् | महाजातीयः, महावीरः । जातीयैकार्थे इति किम् ? महत्तरः । अच्चेरिति किम् ? महद्भूता कन्या ||२३|| इच्यस्वरे दीर्घ आच्च | ३|२|७२॥ इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घ आच्च स्यात् । मुष्टीमुष्टि, मुष्टामुष्ट | अस्वर इति किम् ? अस्यसि ||२४|| अञ्जनादीनां गिरौ | ३|२|७७॥ एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागिरिः, कुक्कुटागिरिः ||२५|| अनजिरादिबहुस्वर - शरादीनां मन्तौ | ३|२|७८ || अजिरादिवर्जबहुस्वराणां शरादीनां च मन्तौ प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती, शरावती, वंशावती । अनजिरादीति किम् ? अजिरवती, हिरण्यवती ||२६|| Jain Education International ऋषौ विश्वस्य मित्रे | ३|२|७९॥ - - - ऋषावर्थे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ||२७|| गति - कारकस्य नहि वृति वृषि-व्याधि-रुचि - सहि तनौ कौ । ३।२।८५ ॥ गति-कारकयोर्नह्यादौ क्विबन्ते उत्तरपदे दीर्घः स्यात् । उपानत्, नीवृत्, प्रावृ, For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy