SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं सर्वादयोऽस्यादौ | ३ |२|६१॥ सर्वादिः परतः स्त्री पुंवत् स्यात्, न तु स्यादौ । सर्वस्त्रियः, भवत्पुत्रः । अस्यादाविति किम् ? सर्वस्यै ॥ १५ ॥ मृगक्षीरादिषु वा | ३|२|६२॥ एषु समासेषु परतः स्त्री उत्तरपदे पुंवद् वा स्यात् । मृगक्षीरम्, मृगीक्षीरम्, काकशावः, काकीशावः ।।१६।। ऋदुदित् तर-तम-रूप-कल्प - ब्रुव-चेलड्- गोत्र-मत- हते वा ह्रस्वश्च ६६ ।३।२।६३॥ । ऋदुदित् परतः स्त्री तरादिषु प्रत्ययेषु ब्रुवादौ च स्त्र्येकार्थे उत्तरपदे ह्रस्वान्तः पुंवच्च वा स्यात् । पचन्तितरा, पचत्तरा, पचन्तीतरा; श्रेयसितरा श्रेयस्तरा, श्रेयसीतरा । पचन्तितमा, पचत्तमा, पचन्तीतमा ; श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा । पचन्तिरूपा, पचद्रूपा, पचन्तीरूपा; विदुषिरूपा, विद्वद्रूपा ; विदुषीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा; विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा । पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा; श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीब्रुवा । पचन्तिचेली, पचचेली, पचन्तीचेली; श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली । पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा ; श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा । पचन्तिमता, पचन्मता, पचन्तीमता ; श्रेयसिमता, श्रेयोमता, श्रेयसीमता । पचन्तिता, पचद्धता, पचन्तीहता; श्रेयसिहता, श्रेयोहता, श्रेयसीहता ||१७|| ङयः | ३|२|६४॥ ङयन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु ह्रस्वः स्यात्। गौरितरा, गौरितमा, नर्त्तकरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्राह्मणिगोत्रा, गार्गिमता, गौरिहता ||१८|| नवैकस्वराणाम् ||३|२|६६॥ 9 एकस्वरस्य ङ्यन्तस्य तरादौ प्रत्यये ब्रुवादौ चोत्तरपदे स्त्र्येकार्थे वा ह्रस्वः स्यात्। स्त्रितरा, स्त्रीतरा; ज्ञितमा, ज्ञीतमा ; शिब्रुवा, ज्ञीब्रुवा । एकस्वराणामिति किम् ? कुटीरा ||१९|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy