________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
न नाम्येकस्वरात् खित्युत्तरपदेऽमः ।३।२।९॥ समासारम्भकमन्त्यं पदम् उत्तरपदम्,तस्मिन् खित्प्रत्ययान्ते परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्याऽमो लुब् न स्यात् । स्त्रियंमन्य:, नावंमन्य: । नामीति किम् ? ममन्य: । एकस्वरादिति किम् ? वधूमन्या। खितीति किम् ? स्त्रीमानी ।।८।।
___ परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ् ।३।२।४९॥ परतः विशेष्यवशात् स्त्रीलिङ्गः स्त्रीवृत्तावेकार्थे उत्तरपदे मुंवत् स्यात्, अनूङन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्र:, कल्याणीमाता । अनूङिति किम् ? ब्रह्मबन्धूभार्यः ॥९।।
क्यङ्-मानि-पित्तद्धिते ।३।२।५०॥ क्यङि मानिनि चोत्तरपदे पिति तद्धिते च परत: स्त्रीलिङ्गोऽनूङ् पुंवत् स्यात्। श्येतायते, श्येनायते। श्येतैत-हरित-भरत-रोहिताद्वर्णात्तो नश्च[२।४।३६] इति ङीर्नश्च । दर्शनीयमानी अयमस्याः । अजयं यूथम् अव्यजात् थ्यप्[७।११३८। इति थ्यप् ।।१०।।
+ पुंवत् कर्मधारये ।३।२।५७॥ परत: स्त्री अनूङ् कर्मधारये सति स्त्र्येकार्थे उत्तरपदे पुंवत् स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येव, ब्रह्मबन्धूवृन्दारिका
॥११॥
रिति ।३।२।५८॥ परत: स्त्री अनूङ् रिति प्रत्यये पुंवत् स्यात् । पटुजातीया, कठदेशीया ।।१२।।
त्व-ते गुणः ।३।२।५९॥ परत: स्त्र्यनूङ् गुणवचनस्त्व-तयोः प्रत्यययोः पुंवत् स्यात् । पटुत्वम्, पटुता । गुण इति किम् ? कठीत्वम् ।।१३।।
च्वौ कचित् ।३।२।६०॥ परतः स्त्र्यनूङ् च्वौ क्वचित् पुंवत् स्यात् । महद्भूता कन्या । क्वचिदिति किम् ? गोमतीभूता ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org