SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [तृतीयाध्याये द्वितीय: पाद:] परस्परा-ऽन्योन्येतरेतरस्याम् स्यादेर्वा पुंसि ।३।२॥१॥ एषामपुंवृत्तीनां स्यादेराम् वा स्यात् । इमे सख्यौ कुले वा परस्परां परस्परम्, अन्योन्यामन्योन्यम्, इतरेतरामितरेतरं [भोजयत:] । परस्परां परस्परेण, अन्योन्यामन्योन्येन, इतरेतरामितरेतरेण भोक्ष्येते । अपुंसीति किम् ? नरा: परस्परं भोजयन्ति ।।१।। अमव्ययीभावस्याऽतोऽपञ्चम्याः ।३।२॥२॥ अदन्तस्याव्ययीभावस्य स्यादेरम् स्यात्, न तु पञ्चम्याः । उपकुम्भमस्ति, उपकुम्भं धेहि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । अत इति किम् ? अधिस्त्रि । अपञ्चम्या इति किम् ? उपकुम्भात् ।।२।। वा तृतीयायाः ।३।२।३॥ अदन्तस्याव्ययीभावस्य तृतीयाया अम् वा स्यात् । किं न: उपकुम्भम् ? किं न: उपकुम्भेन ? अव्ययीभावस्येत्येव, प्रियोपकुम्भेन ॥३॥ सप्तम्या वा ।३।२।४॥ अदन्तस्याव्ययीभावस्य सप्तम्या अम् वा स्यात् । उपकुम्भम्, उपकुम्भे धेहि । अव्ययीभावस्येत्येव, प्रियोपकुम्भे ॥४॥ अनतो लुप् ।३।२।६॥ अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप् स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येव, प्रियोपवधुः ।।५।। अव्ययस्य ।३।२।७॥ अव्ययानां स्यादेलग स्यात् । स्व:, प्रात: । अव्ययस्येति किम् ? 'अत्युच्चैस: ||६|| ऐकायें ।३।२।८॥ ऐकार्थ्यम् ऐकपद्यम्, तन्निमित्तस्य स्यादेर्लुप् स्यात् । चित्रगुः, पुत्रीयति, औपगवः । अत एव लुब्विधानाद् नाम नाम्ना० [३।१११९] इत्युक्तावपि स्याद्यन्तानां समास: स्यात् । ऐकार्य इति किम् ? चित्रा गावो यस्येत्यादिवाक्ये मा भूत् ।।७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy