________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः, कम्बोजमुण्डः, एहीडं कर्म, अश्नीतपिबता क्रिया, कुरुकटो वक्ता, गतप्रत्यागतम्, क्रयाक्रयिका, शाकपार्थिवः, त्रिभागः, सर्वश्वेतः ॥३३॥
चार्थे द्वन्द्वः सहोक्तौ ।३।१।११७।। नाम नाम्ना सह सहोक्तिविषये चार्थवृत्ति: समासो द्वन्द्व: स्यात् । प्लक्षन्यग्रोधौ, वाक्त्वचम् । नाम नाम्ना[३।१।१९] इत्यनुवृत्तावपि लघ्वक्षरा०[३। ११ १६०] दिसूत्रे एकग्रहणाद् बहूनामपि धव-खदिर-पलाशा: । चार्थ इति किम् ? वीप्सासहोक्तौ मा भूत्, ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् ।।३४।।
प्रथमोक्तं प्राक् ।३।११४८॥ अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशा:, उपगङ्गम् ।।३।।
लघ्वक्षरा-ऽसखीदुत्-स्वराद्यदल्पस्वरा-ऽय॑मेकम् ।३।१११६०॥
लघ्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरं पूज्यवाचि चैकं मण्डूकप्लुत्या द्वन्द्वे प्राक् स्यात् । शरशीर्षम्, अग्नीषोमौ, ई: षोम-वरुणेऽग्नेः [३।२।४२] इति ईत्वं षत्वं च । वायुतोयम् । असखीति किम् ? सुतसखायौ । अस्त्र-शस्त्रम्, प्लक्ष-न्यग्रोधौ, श्रद्धा-मेधे । लघ्वादीति किम् ? कुक्कुट-मयूरौ । एकमिति किम् ? शङ्ख-दुन्दुभि-वीणा: । द्वन्द्व इत्येव, विस्पष्टपटुः ।।३६।।
तृतीयस्य प्रथमः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org