SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ६२ स्वोपज्ञरहस्यवृत्तिविभूषितं अयं पञ्चमीतत्पुरुषः साधुः स्यात् । परः शताः, परःसहस्राः ||२६|| षष्ठययत्नाच्छेषे | ३|१|७६ ॥ शेषे [२।२।८१] या षष्ठी तदन्तं नाम्नैकार्थ्ये समासस्तत्पुरुषः स्यात्, न चेत् स शेषः नाथ [२|२|१०] इत्यादेर्यत्नात् । राजपुरुषः । अयत्नादिति किम् ? सर्पिषो नाथितम् । शेष इति किम् ? गवां कृष्णा सम्पन्नक्षीरा ||२७|| कृति | ३ | १२|७७॥ कर्मणि कृत: [ २/२/८३] कर्त्तरि [ २/२/८६ ] इति च या कृन्निमित्ता षष्ठी तदन्तं नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानम्, गणधरोक्तिः ||२८|| सप्तमी शौण्डाद्यैः | ३|१|८८|| एभिः सहैकार्थ्ये सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । पानशौण्डः, अक्षधूर्त: ||२९|| विशेषणं विशेष्येणैकार्थं कर्मधारयश्च | ३ | १|९६॥ भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थ्यम्, तद्वद् विशेषणवाचि विशेष्यवाचिनैकार्थ्ये समासस्तत्पुरुषः कर्मधारयश्च स्यात् । नीलोत्पलम्, खञ्जकुण्टः, कुण्टखञ्जः । एकार्थमिति किम् ? वृद्धस्योक्षा वृद्धोक्षा ||३०|| दिगधिकं संज्ञा- तद्धितोत्तरपदे | ३|१|१८|| दिग्वाच्यधिकं चैकार्थ्ये (र्थं ) नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात्, ++ संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशलाः, पूर्वेषुकामशमी, दाक्षिणशाल:, दिक्पूर्वादनाम्नः [६।३।२३] इति णः । अधिकषाष्टिकः, तं भावि भूते [६|४|१०४] इति इण् । मान- संवत्सरस्या - ऽशाण- कुलिजस्याऽनाम्नि [७|४|१९] इत्युत्तरपदवृद्धिः । उत्तरगवधनः, अधिकगवप्रियः ||३१|| संख्या समाहारे च द्विगुश्चाऽनाम्न्ययम् | ३|१|९९॥ संख्यावाचिपरेणनाम्नासमासस्तत्पुरुषः कर्म्मधारयश्चस्यात्, संज्ञातद्धितयोर्विषये, उत्तरपदे च परे, समाहारे चार्थे, अयमेव चाऽसंज्ञायां द्विगुश्च । पञ्चाम्राः, सप्तर्षयः ; पञ्चगवधनः, पञ्चराजी । समाहारे चेति किम् ? अष्टौ प्रवचनमातरः । अनाम्नीति किम् ? पञ्चार्षम् ( पाञ्चर्षम् ) ||३२|| मयूरव्यंसकेत्यादयः ।३।१|११६॥ Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy