SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । समेंऽशेऽर्द्ध नवा ।३।११५४॥ समांशार्थमर्द्धमंशिनाऽभिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली, पिप्पल्यर्द्धम् । समेंऽश इति किम् ? ग्रामार्द्धः ।।१७।। स्वयं-सामी क्तेन ।३।११५८॥ एते अव्यये क्तान्तेन समासस्तत्पुरुषः स्याताम् । स्वयंधौतम्, सामिकृतम् । क्तेनेति किम् ? स्वयं कृत्वा ।।१८।। द्वितीया खट्वा क्षेपे ।३।११५९॥ खट्वेति द्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहैकार्थ्ये समासस्तत्पुरुषः स्यात् । खट्वारूढः । क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ।।१९।। श्रितादिभिः ।३।११६२॥ द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुष: स्यात् । धर्मश्रितः, शिवगतः ।।२०।। ईषद् गुणवचनैः ।३।११६४॥ ईषदव्ययं गुणवचनैः + समासस्तत्पुरुषः स्यात् । ये गुणे वर्त्तित्वा तद्योगाद् गुणिनि वर्त्तन्ते ते गुणवचना: । ईषत्पिङ्गलः, ईषद्रक्तः । गुणवचनैरिति किम् ? ईषद् गार्ग्य: ।।२१।। चतुर्थी प्रकृत्या ।३।११७०॥ प्रकृतिः परिणामिकारणम्, एतद्वाचिनैकार्थ्यचतुर्थ्यन्तं विकारार्थसमासस्तत्पुरुष: स्यात् । यूपदारु । प्रकृत्येति किम् ? रन्धनाय स्थाली ॥२२।। हितादिभिः ।३।१७१॥ चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुष: स्यात् । गोहितम्, गोसुखम् ।।२३।। तदर्थार्थेन ।३।१।७२॥ चतुर्थ्यर्थोऽर्थो? ] यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुष: स्यात् । पित्र) पयः, आतुरार्था यवागू: । तदर्थेति किम् ? पित्रेऽर्थः ।।२४।। पञ्चमी भयाद्यैः ।३।१७३॥ पञ्चम्यन्तं भयाधैरैकाथैः समासस्तत्पुरुष: स्यात् । वृकभयम्, वृकभीरुः ।।२५।। परःशतादिः ।३।१७५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy