________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
धेहि । सदृक्- सव्रतम् | सम्पत्- सब्रह्म साधूनाम् । साकल्य- सतृणमभ्यवहरति । अन्त- सपिण्डैषणमधीते || १० ||
गति - कन्यस्तत्पुरुषः | ३ | १|४२ ||
६०
गतयः कुश्च नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात्, अन्यः बहुब्रीह्यादिलक्षणहीन. । ऊरीकृत्य, खाट्कृत्य, प्रकृत्य, कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः || ११|| प्रात्यव-परि-निरादयो गत- क्रान्त क्रुष्ट - ग्लान - क्रान्ताद्यर्थाः प्रथमाद्यन्तैः
|३|१|४७॥
प्रादयो गताद्यर्थाः प्रथमान्तैः, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तैः, अवादयः 'क्रुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यन्तैः, निरादयः क्रान्ताद्यर्था: पञ्चम्यन्तैर्नित्यं समासस्तत्पुरुषः स्यात् । प्राचार्य:, समर्थः ; अतिखट्वः, उद्वेल : ; अवकोकिलः, परिवीरुतू; पर्यध्ययनः, उत्सङ्ग्रामः ; निष्कौशाम्बि:, अपशाखः ; बाहुलकात् षष्ठचाऽपि अन्तर्गार्ग्यः । गताद्यर्था इति किम् ? वृक्षं प्रतिविद्युत् । अन्य इत्येव, प्राचार्यको देशः || १२||
1
ङस्युक्तं कृता | ३ | १|४९ ॥
कृत्प्रत्ययविधायके सूत्रेङस्यन्तनाम्नोक्तं कृदन्तेननाम्नानित्यंसमासोऽन्यस्तत्पुरुषः स्यात् । कुम्भकारः । अग्निचित् ||१३||
तृतीयोक्तं वा । ३|१|५० ॥
दंशेस्तृतीयया [५/४/७३ ] इत्यारभ्य यत्तृतीयोक्तं तत् कृदन्तेन वा समासोऽन्यस्तत्पुरुषः स्यात् । मूलकेनोपदंशं मूलकोपदंशं भुङ्क्ते || १४ ||
नञ् । ३।११५१॥
नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः ; असूर्यंपश्या राजदाराः
।।१५।।
पूर्वा ऽपरा-ऽधरोत्तरमभित्रेनांशिना । ३ । १।५२ || पूर्वादयोंऽशार्था अंशबद्धाचिना समासस्तत्पुरुषः स्युः, न चेत् सोंडशी भिन्नः । पूर्वकायः, अपरकायः, अधरकायः, उत्तरकायः । अभिन्नेनेति किम् ? पूर्वं छात्राणामामन्त्रयस्व । अंशिनेति किम् ? पूर्वो नाभे: कायस्य || १६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org