________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्खचेये वाच्ये, स च बहुव्रीहिः । आसन्नदशा:, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः, अर्द्धपञ्चमविंशाः ||५||
__ अव्ययम् ।३।१॥२१॥ अव्ययं नाम सङ्ख्यानाम्नैकार्थ्य समस्यते द्वितीयाद्यन्यार्थे सङ्खयेये वाच्ये, स च बहुव्रीहिः । उपदशा: ।।६।।
___ एकार्थं चाऽनेकं च ।३।१।२२॥ एकमनेकं च एकार्थं समानाधिकरणम् अव्ययं च द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते, स च बहुव्रीहिः । आरूढवानरो वृक्षः, सुसूक्ष्मजटकेश:, उच्चैर्मुखः ।।७।। तत्राऽऽदाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः ।३।१।२६॥
तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे, तेनेति तृतीयान्तं मिथः प्रहृत्येति क्रियाव्यतिहारे, समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावश्च स्यात् । केशाकेशि, दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च गृहीत्वा, मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति च किम् ? केशेषु च केशेषु च स्थित्वा, दण्डैश्च दण्डैश्चागत्य कृतं युद्धं गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? हस्ते च हस्ते चाऽऽदाय सख्यं कृतम् ।।८।।
नित्यं प्रतिनाऽल्पे ।३।११३७॥ अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ।।९।।
विभक्ति-समीप-समृद्धि-व्यूद्धयर्थाभावा-ऽत्यया-ऽसंप्रति-पश्चात्क्रम-ख्याति-युगपत्-सदृक्-सम्पत्-साकल्या-ऽन्तेऽव्ययम् ।३।१॥३९॥ ___ एष्वर्थेषु वर्त्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभाव: स्यात् । विभक्ति- विभक्त्यर्थः कारकम्, अधिस्त्रि । समीप- उपकुम्भम् । समृद्धिसुमद्रम् । विगता ऋद्धिर्वृद्धि:- दुर्यवनम् । अर्थाभाव- निर्मक्षिकम् । अत्ययोऽतीतत्वम्- अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभाव:- अतिकम्बलम् । पश्चात्अनुरथम् । क्रम- अनुज्येष्ठम् । ख्याति- इतिभद्रबाहु । युगपत्- सचक्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org