________________
५८
स्वोपज्ञरहस्यवृत्तिविभूषितं
[अथ तृतीयोऽध्यायः] [प्रथम: पाद:] धातोः पूजार्थस्वति-गतार्थाधिपर्यतिक्रमाांतिवर्जः प्रादिरुपसर्गः प्राक् च ।३।१।१॥
धातो: सम्बन्धी तदर्थद्योती प्रादिरुपसर्गः स्यात्, स च धातोः प्राक्, न परे, न व्यवहितः, पूजार्थौ स्वती, गतार्थावधिपरी, अतिक्रमार्थमतिं च वर्जयित्वा । प्रणयति, परिणयति । अदुरुपसर्गाऽन्तरो ण- हिनु-मीना-ऽऽने: [२।३।७७] इति णत्वम् । धातोरिति किम् ? वृक्षं वृक्षमभि सेकः । पूजार्थस्वत्यादिवर्जनं किम् ? सुसिक्तम्, अतिसिक्तं भवता ; अध्यागच्छति, आगच्छत्यधि, पर्यागच्छति, आगच्छति परि ; अतिसिक्त्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ।।१।।
ऊर्याद्यनुकरण-च्चि-डाचश्च गतिः ।३।१॥२॥ एते उपसर्गाश्च धातोः सम्बन्धिनो गतय: स्युः, ते च प्राग् धातोः । ऊर्यादि- ऊरीकृत्य, उररीकृत्य ; अनुकरण- खाट्कृत्य ; च्व्यन्त- शुक्लीकृत्य ; डाजन्त- पटपटाकृत्य ; उपसर्ग- प्रकृत्य ।।२।।
नाम नाग्नैकार्थ्ये समासो बहुलम् ।३।१११८॥ नाम नाम्नैकार्थ्ये सामर्थ्यविशेषे सति समासो बहुलं स्यात्, लक्षणमिदमधिकारश्च, तेन बहुव्रीह्यादिसंज्ञाऽभावे यत्रैकार्थता तत्रानेनैव समास: । विस्पष्टपटुः, दारुणाध्यायकः, कन्येइव, श्रुतपूर्वः । नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्र: पचति ।।३।।
सुज्-वार्थे संख्या संख्येये संख्यया बहुव्रीहिः ।३।१११९॥ सुजों वारः, वार्थो विकल्प: संशयो वा, तद्वृत्ति सङ्ख्यावाचि नाम सङ्खयेयार्थेन सङ्ख्यानाम्ना सहकार्ये समासो बहुव्रीहिश्च स्यात् । द्विदशाः, द्वित्राः । सङ्खचेति किम् ? गावो वा दश वा । रावययेति किम् ? दश वा गावो वा । सङ्ख्येय इति किम् ? द्विविंशतिर्गवाम् ।।४।।
आसन्ना-ऽदूरा-ऽधिका-ऽध्य -ऽर्धादिपूरणं द्वितीयाद्यन्यार्थे । ३।१।२०॥
आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्नैकार्थे समास: स्यात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org