SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ५६ स्वोपज्ञरहस्यवृत्तिविभूषितं ड्यादेगौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः ।२।४।९५॥ यादेः प्रत्ययस्य गौणस्याकिबन्तस्य तद्धितलुकि लुक् स्यात्, न तु गोणीसूच्योः । सप्तकुमारः, पञ्चयुवा, द्विपङ्गुः । गौणस्येति किम् ? अवन्ती । अक्किप इति किम् ? पञ्चकुमारी । अगोणी-सूच्योरिति किम् ? पञ्चगोणिः, दशसूचिः ||२७|| गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ ।२।४।९६॥ गौणस्याऽक्विपो गोर्डयाद्यन्तस्य चान्ते वर्त्तमानस्य ह्रस्व: स्यात्, न चेदसावंशिसमासान्त ईयंस्वन्तबहुव्रीह्यन्तो वा । चित्रगु:, निष्कौशाम्बिः, अतिखट्व:, अतिब्रह्मबन्धुः । गौणस्येत्येव, सुगौः, राजकुमारी । अक्किप इत्येव, प्रियगौः, प्रियकुमारी चैत्रः । गोश्चेति किम् ? अतितन्त्री: । अन्त इति किम् ? गोकुलम्, कन्यापुरम् । अंशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना ।।२८।। क्लीबे ।२।४।९७॥ नपुंसकवृत्ते: स्वरान्तस्य नाम्नो ह्रस्व: स्यात् । कीलालपम्, अतिनु कुलम् ।।२९।। यादीदूतः के ।।४।१०४॥ ङचा आदीदूतां च के प्रत्यये ह्रस्व: स्यात् । पट्विका, सोमपका, लक्ष्मिका, वधुका ।।३०|| न कचि ।२।४।१०५॥ यादीदूत: कचि परे ह्रस्वो न स्यात् । बहुकुमारीकः, बहुकीलालपाकः, बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः ।।३१।। - नवाऽऽपः ।।४।१०६॥ आपः कचि परे ह्रस्वो वा स्यात् । प्रियखट्वकः, प्रियखट्वाक: ।।३२।। इच्चाऽपुंसोऽनित्क्याप्परे ।२।४।१०७॥ आबेव परो यस्मान्न विभक्तिस्तस्मिन्ननित: प्रत्ययस्यावयवे कि परेऽपुंलिङ्गार्थाद् विहितस्याऽऽपस्स्थाने इ-ह्रस्वौ वा स्याताम् । खट्विका, खट्वका, खट्वाका । अपुंस इति किम् ? सर्विका । अनिदिति किम् ? दुर्गका । ते लुग्वा [३।२।१०८] इति लुकि, लुक्युत्तरपदस्य कप्न् [७३।३८] इति कप्न् । आप्पर इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy