________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङी: स्यात् । कुन्ती, दाक्षी । इत इत्येव, दरत् । नुरिति किम् ? तित्तिरिः । जातेरिति किम् ? निष्कौशाम्बि: ।।१८।।
उतोऽप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ् ।२।४॥७३॥ उदन्तानृजात्यप्राणिजातिवाचिन: स्त्रियाम् ऊ स्यात्, न तुय्वन्ताद्ज्ज्वादिभ्यश्च । कुरू:, कुरोर्वा [६।१।११२] इति ज्यस्य लुप् । ब्रह्मबन्ध: ; अलाबू:, कर्कन्धूः । उत इति किम् ? वधूः । अप्राणिनश्चेति किम् ? आखु: । जातेरित्येव, पटुः स्त्री । यु-रज्ज्वादिवर्जनं किम् ? अध्वर्यु: स्त्री, रज्जु: ।।१९।।
नारी-सखी-पञ्जू-श्वश्रू ।२।४।७६॥ एते ङ्यन्ता ऊङन्ताश्च स्त्रियां निपात्यन्ते ॥२०॥
यूनस्तिः ।२।४।७७॥ यून: स्त्रियां ति: स्यात् । युवतिः । मुख्यादित्येव, निषूनी ।।२१।।
अस्य यां लुक् ।२।४॥८६॥ ड्यां परेऽतो लुक् स्यात् । मद्रचरी ।।२२।।
मत्स्यस्य यः ।२।४।८७॥ मत्स्यस्य यो ड्यां लुक् स्यात् । मत्सी ॥२३।।
व्यञ्जनात् तद्धितस्य ।२।४।८८॥ व्यञ्जनात् परस्य तद्धितस्य यो ङ्यां लुक् स्यात् । गार्गी । व्यञ्जनादिति किम् ? कारिकेयी । तद्धितस्येति किम् ? वैश्यी ।।२४।।
आपत्यस्य क्य-च्च्योः ।।४।९१॥ व्यञ्जनात् परस्याऽऽपत्यस्य य: क्ये च्वौ च परे लुक् स्यात् । गार्गीयति, गार्गायते, गार्गीभूत: । आपत्यस्येति किम् ? साङ्काश्यीयति । व्यञ्जनादित्येव, कारिकेयायते ।।२५।।
___ तद्धितयस्वरेऽनाति ।२।४।९२॥ व्यञ्जनात् परस्याऽऽपत्य[स्य] यो यादावादादिवर्जस्वरादौ च तद्धिते लुक् स्यात् । गार्ग्य:, गार्गकम् । आपत्यस्येत्येव, काम्पील्यकः । प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् [६।३।४३] इत्यकञ् । तद्धितेति किम् ? वात्स्येन । अनातीति किम् ? गाायण: ।।२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org