SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ५४ स्वोपज्ञरहस्यवृत्तिविभूषितं मन्नन्ताद् बहुव्रीहेश्चाऽनन्तात् स्त्रियाम् आप् वा स्यात्, स च डित् । सीमे, सुपर्वे । पक्षे सीमानौ, सुपर्वाणौ ।।९।। अजादेः ।।४।१६॥ अजादेस्तस्यैव स्त्रियाम् आप् स्यात् । अजा, बाला, ज्येष्ठा, क्रुञ्चा ॥१०॥ आत् ।२।४।१८॥ अकारान्तात् स्त्रियाम् आप् स्यात् । खट्वा, या, सा ॥११।। गौरादिभ्यो मुख्यान्ङी ।२।४।१९॥ गौरादिगणान्मुख्यात् स्त्रियां डी: स्यात् । गौरी, शबली । मुख्यादिति किम् ? बहुनदा भूमिः ।।१२।। अणयेकण्-नञ्-सञ्-टिताम् ।२।४।२०॥ अणादीनां योऽत् तदन्तात्तेषामेव स्त्रियां डी: स्यात्। औपगवी, बैदी, सौपर्णेयी, आक्षिकी, स्त्रैणी, पौंस्नी, जानुदघ्नी ।।१३।। नवा शोणादेः ।२।४॥३१॥ शोणादेः स्त्रियां ङीर्वा स्यात् । शोणी, शोणा ; चण्डी, चण्डा ।।१४।। इतोऽक्त्य र्थात् ।२।४॥३२॥ क्त्यर्थप्रत्ययान्तवर्जाद् इदन्तात् स्त्रियां डीर्वा स्यात् । भूमी, भूमिः । अक्त्यर्थादिति किम् ? कृतिः, हानिः ।।१५।। स्वरादुतो गुणादखरोः ॥२॥४॥३५॥ स्वरात् परो य उत् तदन्ताद् गुणवचनात् खरुवर्जात् स्त्रियां ङीर्वा स्यात् । पट्वी, पटुः । स्वरादिति किम् ? पाण्डुर्भूमिः । गुणादिति किम् ? आखु: स्त्री । अखरोरिति किम् ? खरुरियम् ।।१६।। इन इतः ।२।४७१॥ इञन्ताद् इदन्तात् स्त्रियां डी: स्यात् । सौतङ्गमी । इत इति किम् ? कारीषगन्ध्या, अनार्षे वृद्धेऽणिजो बहुस्वरगुरूपान्त्यस्यान्तस्य ष्यः [२।४/७८] इति ष्य:, दुनादिकुर्वित्कोशलाजादाभ्यः [६।११११८] इति व्यः । कुन्त्यवन्तेः स्त्रियाम् [६।१।१२१] इति तस्य लुक् ॥१७|| नुर्जातेः ।२।४॥७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy