________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
तयोः प्रत्ययस्थे कखपफि रोरेव च काम्ये, नामिनः परस्य रस्य ष् स्यात् । सर्पिष्पाशम्, धनुष्कल्पम्, धानुष्कः, सर्पिष्काम्यति । नामिन इति किम् ? अयस्कल्पम् । रोः काम्य इत्येव, गी काम्यति ।।८।। नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि।२।३।१५॥
एभ्य: परस्य पदस्यांन्तर्मध्ये कृतस्य कृतस्थस्य वा सस्य ष् स्यात्, शिटा नकारेण चाऽन्तरेऽपि । आशिषा, नदीषु, वायुषु, वधूषु, पितॄषु, एषा, गोषु, नौषु, सिषेवं ; गीर्षु, हल्षु ; शक्ष्यति, क्रुषु । शिड्नान्तरेऽपि, सर्पिष्षु, यजूंषि । पदान्तरिति किम् ? दधिसेक् वृत्त्यन्तोऽसषे [१।१।२५] इति सेच: पदत्वात् सस्य पदादित्वम् । कृतस्येति किम् ? बिसम् ।।९।।
घस्-वसः ।२।३।३६॥ नाम्यादे: परस्य घस्-वसो: स: ष् स्यात् । जक्षुः, उषितः ॥१०॥
र-वर्णानो ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे ।२।३।६३॥
एभ्यः परस्यैभिः सहैकस्मिन्नेव पदे स्थितस्याऽनन्त्यस्य नो ण: स्यात्, ल-च-ट-तवर्गान् श-सौ च मुक्त्वाऽन्यस्मिन्निमित्त-कार्यिणोरन्तरेऽपि सति । तीर्णम्, पुष्णाति, नृणाम्, नृणाम्, करणम्, बृंहणम्, अर्केण । एकपद इति किम् ? अग्निर्नयति, चर्मनासिकः । अनन्त्यस्येति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन, मूर्छनम्, दृढेन, तीर्थेन, रशना, रसना ।।११।।
पाठे धात्वादेो नः ।२।३।९७॥ पाठे धात्वादेर्णो न् स्यात् । नयति । पाठ इति किम् ? णकारीयति । आदेरिति किम् ? रणति ।।१२।।
षः सोऽष्टयै-ष्ठिव-ष्वष्कः ।२।३।९८॥ पाठे धात्वादेः ष: स् स्यात्, न तु ष्टयै-ष्ठिव-ष्वष्काम् । सहते । आदेरित्येव, लषति । ष्ट्यादिवर्जनं किम् ? स्त्यायति, ष्ठीव्यति, ष्वष्कते ।।१३।।
ऋ-र ल-लं कृपोऽकृपीटादिषु ।२।३।९९ कृपेर्ऋत: लत्, रस्य च ल् स्यात्, न तु कृपीटादिविषयस्य । क्लृप्तः, क्लृप्यते, १. “षिवूच् उतौ [है०धा० ११६४] परोक्षा णव्' इति J टिप्पने ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org