SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [द्वितीयाध्याये तृतीयः पादः ] नमस् - पुरसो गतेः क ख - प - फि रः सः | २|३|१|| गतिसंज्ञनमस्-पुरसोः क-ख-प-फि रस्य स् स्यात् । नमस्कृत्य, पुरस्कृत्य । साक्षादादिश्च्व्यर्थे [ ३|१|१४] पुरो - ऽस्तमव्ययम् [३|१| ७] इति च गतिसंज्ञा || १ || ५० तिरसो वा | २|३|२|| गतेस्तिरसो रस्य कखपफि स् वा स्यात् । तिरस्कृत्य, तिरःकृत्य । कृगो न वा [ ३|१|१० ] इति गतित्वम् । गतेरित्येव, तिरः कृत्वा काष्ठं गतः ||२|| पुंसः | २|३|३|| घुम्सः सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः, पुंस्खात:, पुंस्पाक:, पुंस्फलम् ||३|| शिरो - saसः पदे समासैक्ये |२| ३ | ४ || अनयो रेफस्य पदशब्दे परे स् स्यात् समासैक्ये । शिरस्पदम्, अधस्पदम् । अव्ययं प्रवृद्धादिभि: [ ३|१|४८ ] इति तत्पुरुषः । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरः पदम् ||४|| अतः कृ कमि कंस कुम्भ- कुशा कर्णी पात्रेऽनव्ययस्य | २|३|५|| - - - - आत् परस्याऽनव्ययस्थस्य रस्य क्रादिस्थे कखपफि परे स् स्यात् समासैक्ये । अयस्कृत्, यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, पयस्कर्णी, अयस्पात्रम् । अत इति किम् ? वा: पात्रम् । अनव्ययस्येति किम् ? स्व:कारः । समासैक्य इत्येव, उपपय: कारः ||५|| प्रत्यये ।२।३।६॥ Jain Education International अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम्, पयस्कल्पम् । अनव्ययस्येत्येव, स्व: पाशम् ||६| रोः काम्ये | २|३|७॥ अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् ? अहः काम्यति ||७|| नामिनस्तयोः षः | २|३|८|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy