________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
एभिर्युक्तात् सप्तमी वा स्यात् । गोषु गवां वा स्वामी, ईश्वरः, अधिपतिः, दायादः, साक्षी, प्रतिभूः, प्रसूतो वा ।।५९।।
यद्भावो भावलक्षणम् ।२।२।१०६॥ भावः क्रिया, यस्य भावेनाऽन्यो भावो लक्ष्यते तद्वाचिन: सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥६०॥
__षष्ठी वाऽनादरे ।२।२।१०८॥ यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य रुदति वा लोके प्रावाजीत् ।।६१।।
सप्तमी चाऽविभागे निर्धारणे ।२।२।१०९॥ जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम्, तस्मिन् गम्ये षष्ठी-सप्तम्यौ स्याताम्, अविभागे निर्झर्यमाणैकदेशस्य समुदायेन
सह कथञ्चिदैक्ये शब्दाद् गम्ये । क्षत्रियो नृणां नृषु वा शूरः, कृष्णा गवां गोषु MARITRA [वा] बहुक्षीरा, धावन्तो यातां यात्सु वा शीघ्रतमाः, युधिष्ठिर: श्रेष्ठतमः कुरूणां कुरुषु वा । अविभागे इति किम् ? मैत्रश्चैत्रात् पटुः ॥६२॥
___ द्वितीया-षष्ठयावेनेनाऽनञ्चेः ।२।२।११७॥ एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यौ स्याताम्, न चेत् सोऽश्चे: पर: स्यात् । पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् ग्रामात् ।।६३।।
हेत्वर्थस्तृतीयाद्याः ।२।२।११८॥ हेतुर्निमित्तम्, तद्वाचिभिर्युक्तात् तृतीयाद्याः स्युः । धनेन हेतुना, धनाय हेतवे, धनाद्धेतो:, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्तादिभिरपि ।।६४||
द्वितीयस्य द्वितीय: पाद: समाप्त: ।।२।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org