________________
सर्वसिद्धान्तप्रवेशकः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेवेति । अस्मात् त्रिरूपाल्लिङ्गानिश्चिताल्लिङ्गिनि साध्यधर्मविशिष्टे धर्मिणि ज्ञानमनुमानम् । इत्येवं द्वे एव प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात् ।
इति सुगतसिद्धान्तः समाप्तः ॥
_ [मीमांसकदर्शनम्] मीमांसकसिद्धान्ते वेदपाठानन्तरं धर्मजिज्ञासा कर्तव्या । यतश्चैवं ततस्तस्य निमित्तपरीक्षा । निमित्तं च चोदना । यत उक्तम्"चोदनालक्षणोऽर्थों धर्मः" [जै० सू० १।१।२] । चोदना च क्रियायाः प्रवर्तकं वचनमाहुः, यथा 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादि । तेन धर्मो लक्ष्यते, न पुनः प्रत्यक्षादिना ।।
आह-कथं प्रत्यक्षमनिमित्तम् ? यतस्तदेवंविधम्-'"सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलेम्भकत्वात्" [जै० सू० १।१।४] । तथा अनुमानमप्यनिमित्तम्, प्रत्यक्षपूर्वकत्वात् तस्येति । तथा उपमानमप्यनिमित्तमेव ।
यतस्तस्य गो-गवयसादृश्यग्रहणे सति गौरेव प्रमेयः । तथा अर्थापत्तिरपि, सा च द्विधा-श्रवणाद् दर्शनाच्च । श्रवणाद् यथा पीनो
१. "सत्त्वमेवेत्येतस्मात् B ॥ २. "ङ्गाज्ञानन्निश्चितालिङ्गिनि A ॥ 'डान्निश्चितं लिङ्गिनि B | ३. साध्य B नास्ति ।। ४. सुगतमतं समाप्तम् BI ५. “राद्धान्ते B || ६. "तस्य निमित्तपरीष्टि:-" जै० सू० १।१।३ ॥ ७. च B नास्ति । ८. यतश्चोक्तम् B || ९. क्षणो धर्मः A ॥ १०. “चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः"-शाबरभाष्य १।१।२॥ ११. मित्तं च विद्य' A ॥ १२. "लम्भत्वात् A । “लम्भनत्वात्" इति मुद्रिते जैमिनिसूत्रे ॥ १३. गौरिव गवयः प्रमेयः B । अत्रेदं ध्येयम् । 'गौरिव गवयः' इत्युपमानं नैयायिकानां शोभते । मीमांसकग्रन्थेषु 'एतेन (गवयेन) सदृशो गौः' इत्येव उपमानस्वरूपं वर्णितं सर्वत्र शाबरभाष्य-मीमांसाश्लोकवार्तिकादिषु । एवमेव चानूदितमन्यैरपि-"जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति । यदा श्रुतातिदेश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org