________________
साङ्ख्यदर्शनम्
१७
कर्मणि चादुष्टः स तत्राप्तः । तेन य उपदेशः क्रियते तद्यथा 'स्वर्गेऽप्सरसः, उत्तराः कुरवः' स आप्तोपदेशः । एवमेतानि त्रीण्येव प्रमाणानि शेषप्रमाणानामत्रैवान्तर्भावात् ।
इति साङ्ख्यसिद्धान्तः समाप्तः । [ बौद्धदर्शनम् ]
अथ बौद्धमतप्रदर्शनायेदमपदिश्यते । तत्र हि पदार्था द्वादशाऽऽयतनानि । तद्यथा-चक्षुरिन्द्रियायतनं रसेन्द्रियायतनं घ्राण-स्पर्श- श्रवणमनआयतनं रूपायतनं रसायतनं गन्धायतनं स्पर्शायतनं शब्दायतनं धर्मायतनम् । धर्माश्च सुखादयः ।
आह-कः पुनरेषां परिच्छेदहेतुः ? प्रमाणम् । * तद् द्विधा"प्रत्यक्षमनुमानं च । तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम्" [ न्यायबिन्दु १।३, ४] कल्पना नाम - जात्यादियोजना । तत्र नामकल्पना डित्थ इति । जातिकल्पना गौरिति । गुणकल्पना शुक्ल इति । क्रियाकल्पना पाचकः पाठक इति । द्रव्यकल्पना दण्डी विषाणीति । अनया कल्पनया रहितं प्रत्यक्षं प्रमाणमित्युच्यते ।
अथानुमानम् - त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् । रूपत्रयं च
१. शेषाणाम A ॥। २. सांख्यमतं समाप्तम् B ॥ ३. बुद्ध' A ॥ ४. नायैवमाह तत्र B ॥ ५. “पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि च ॥८॥ " - षड्द० स० । एतान्येव द्वादशायतनानि अभिधर्मकोशेऽपि ॥ ६. “धर्माः सुख-दुःखादय:, तेषामायतनं गृहं शरीरमित्यर्थः " - षड्द० स० बृहद्वृत्ति पृ० १३ A ॥★ तच्च B ॥ ७. “जात्यादिकल्पना B । " अपरे तु मन्यन्ते - प्रत्यक्षं कल्पनापोढमिति । अथ केयं कल्पना ? नामजात्यादियोजनेति ।" - न्यायवा० १|१|४| पृ० १३० । विस्तरार्थं दृश्यताम् - प्र० समु० १ ३ | तत्त्वसं० पं० पृ० ३६९ । न्यायवा० ता० पृ० १३० । नयचक्रवृत्ति पृ० ५९-६० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org