________________
साङ्ख्यदर्शनम्
१९
देवदत्तो दिवा न भुङ्क्ते, अर्थादापन्नम् - रात्रौ भुङ्क्ते । अस्याश्च रात्रिभोजन-वाक्यमेव प्रेमेयमिति । दर्शनाद् यथा भस्मादिविकारमुपलभ्य दाहशक्तिंर्वह्नेः प्रमीयते । तथा अपराण्यपि उदाहरणानि शास्त्रादुत्प्रेक्ष्य वक्तव्यानि । अभावोऽप्यनिमित्तम्, अभावविषयत्वात् । तस्माच्चोदनालक्षण एव धर्मो नान्यलक्षण इति स्थितम् । तथा वर्णानामेव वाचकत्वम्-अर्थप्रतिपत्तिहेतुत्वम् । तच्च बाह्य एवार्थे, नान्यत्र । यत उक्तम्–“ गकारौकारविसर्जनीया 'इति भगवानुपवर्ष: '
"
वाक्यस्य वने गवयपिण्डदर्शनानन्तरं नगरं गतं गोपिण्डमनुस्मरतः 'एतेन सदृशो गौ: ' इति ज्ञानं तदुपमानम् । तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः तद्वृत्ति वा गवयसादृश्यम् " - न्यायमं० पृ० १३२ । यद्यपि न्यायावतारवृत्तौ ( पृ० १९) ‘अयं तेन सदृशोऽनयोर्वा सादृश्यम्' इति वर्णितमुपमानस्वरूपम्, तत्र साम्मत्याय च संवादितः “तस्माद् यद् दृश्यते तत् स्यात् सादृश्येन समन्वितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥” इति श्लोकः, किन्तु मीमांसकानामेवेदं मतमिति आहत्य वक्तुं न पार्यते, यतोऽयं श्लोकः मीमांसश्लोकवार्तिके " तस्माद् यत् स्मर्यते तत् स्यात्... " ॥ [ मी० श्लो० वा० उपमान० ३७ A] इति पाठभेदेनैवोपलभ्यते तथैव च व्याख्यातोऽपि व्याख्यातृभिः, यत्तु "प्रसिद्धार्थस्य साधर्म्यादप्रसिद्धस्य साधनम् ॥७४॥|” इत्यभिहितं षड्दर्शनसमुच्चये हरिभद्रसूरिपादैः तत्तु केनचिदप्यभिप्रायविशेषेण संगमनीयम् । यतस्त एव हरिभद्रसूरिपादाः शास्त्रवार्तासमुच्चयस्वोपज्ञवृत्तावित्थमभिदधिरे“नैवोपमानेनापि गम्यते सर्वज्ञः, तस्य सादृश्यविषयत्वात् 'अनेन दृश्यमानेन पदार्थेन सदृशस्तदीयो गौः' इति प्रवृत्तेः ।" पृ० ८० A ॥
१. अत्र रात्रि A ॥ २. 'जनमेव B | "पीनो दिवा न भुङ्क्ते चेत्येवमादिवचः श्रुतौ । रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते ॥५१॥ तामर्थविषयां केचिदपरे शब्दगोचराम् । कल्पयन्ति... ॥५२॥ इत्युक्त्वा अन्ते वाक्यविषयत्वं प्रसाधितं मीमांसाश्लोकवार्तिके कुमारिलेन । “पीनत्वे सति दिवा भोजनप्रतिषेधस्य आत्मलाभो रात्रिवाक्यं नोपपद्यते इति श्रुतार्थापत्तेः प्रमाणविषयत्वेन दृष्टार्थापत्तेर्वैलक्षण्यम्” । - मी० श्लो० वा० भट्टोम्बेकवृत्ति पृ० ४०४ ॥ ३. प्रमेयम् B ॥ ४. 'र्वह्नौ A। “तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । वह्ने....॥३०॥ " - मी० श्लो० वा० अर्था० ॥ ५. इति गवानुवेश: A । इति ताल्वाद्यनुकर्ष B | " अथ गौः इत्यत्र कः शब्दः ? गकारौकारविसर्जनीया इति भगवानुपवर्षः ।" - शाबरभाष्य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org