________________
सर्वसिद्धान्तप्रवेशकः
प्रसवाऽभिष्वङ्ग-- प्रीतयः कार्यं सत्त्वस्य, शोष-त
-ताप-भेद-स्तम्भोगाऽपद्वेषाः कार्यं रजसः, आवरण-सादन- बीभत्स - दैन्य-गौरवाणि तमसः
कार्यम् ।
१४
"सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।।'' [साङ्ख्यका०१३] एवं तावत् प्रकृतिः स्थूल सूक्ष्मरूपेण व्याख्याता ॥
७
अथ पुरुषः किंस्वरूपैः ? चैतन्यं पुरुषस्य स्वरूपम् । प्रकृतिपुरुषयोश्च उपभोगार्थः सम्बन्धः संयोगः पङ्ग्न्ध उपभोगश्च शब्दाद्युपलम्भो गुणपुरुषान्तरोपलम्भश्च । आह- किमेकः
।
१. धर्मप्रीत्यादयः A । एतद्विषयकेषु तत्तद्ग्रन्थान्तर्गतभागेषु प्रायः सर्वत्र 'धर्म' शब्दस्थाने 'उद्धर्ष' पाठ एवोपलभ्यते । यदि तु यथाश्रुत 'धर्म' शब्दपाठे एव निर्बन्धः तर्हि 'अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ||२३|| ' इति सांख्यकारिकाप्रतिपादितं धर्मं गृहीत्वा संगमनीयम् । २. “गप्रद्वेषाः B। ३. तुलना - " सुखानां शब्द - स्पर्श-रूप-रसगन्धानां प्रसादलाघवप्रसवाऽभिष्वङ्गोद्धर्षप्रीतयः कार्यम् । दुःखानां शोष-तापभेदा(दो)पस्तम्भोद्वेगाऽपद्वेषाः । मूढानां वरण- सदना - ऽपध्वंसन- बैभत्स्य- दैन्यगौरवाणीति'' -नयचक्रवृत्ति पृ० १२ । "प्रसाद - लाघवा - ऽभिष्वङ्गोद्धर्षप्रीतयः सत्त्वस्य कार्यम् ।...ताप - शोष- भेद-स्तम्भोद्वेगापद्वेगा (षा) रजसः कार्यम् ।... दैन्याऽऽवरण-सादना-ऽ[प] ध्वंस- बीभत्स - गौरवाणि तमसः कार्यम्" - तत्त्वसं० पं० पृ० २१ । न्यायकुमुदचन्द्र पृ० ३५० ॥ ४. नेयमार्या B प्रतौ ॥ ५. किंरूपः A ॥ ६. स्वं रूपम् A ॥ " वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा - चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते ?" - पातञ्जलदर्शनयोगभाष्य १|९|| ७. सम्बन्धः A नास्ति || ८. " पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥ |" - सांख्यका० ॥ ९ " सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ||३७||”-साङ्ख्यका० । “ तथा चाहुः - उपभोगस्य शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तः ।" - सांख्यका० युक्तिदीपिका पृ० १३९ । " प्रधानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org