________________
साङ्ख्यदर्शनम्
पुरुषोऽनेको वा ? अनेक इत्याह । का पुनरत्र युक्तिः ? जन्म-मरणकरणानां नियमदर्शनाद् धर्मादिषु प्रवृत्तिनानात्वाच्चानेकः पुरुषः, स आत्मोच्यते इति ॥
अथ प्रमाणं वक्तव्यम् । तदुच्यते-प्रत्यक्षमनुमानमागमश्चेति । तत्र प्रत्यक्षम्-“श्रोत्रादिवृत्तिः प्रत्यक्षम् " [ [] श्रोत्र - त्वक् चक्षु-जिह्वाघ्राणानां मनसाधिष्ठितानां शब्दादिविषयग्रहणे वर्तमाना वृत्तिः
पुरुषार्था प्रवृत्तिः । स च पुरुषार्थो द्विविधः - शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तश्च'- माठरवृ० पृ० ७९॥
१५
१. नियमादर्श' A । नियतदर्श B। " जन्म-मरण करणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥ जन्मनियमात् पश्यामो बहवः पुरुषाः, यथैकस्मिन्नधिष्टाने बहवः स्त्रियो गर्भिण्यः तत्र काश्चित् प्रसूताः काश्चित् प्रसविष्यन्ति । यद्येकः पुरुषः स्यात् एकस्यां प्रसूतायां सर्वाः प्रसवेरन् । अतः पश्यामो बहवः पुरुषाः ।... । यद्येकः पुरुषः स्यात् एकस्मिन् जीवति सर्वे जीवेरन्, एकस्मिन् मृते सर्वे म्रियेरन्, तस्मान्मरणनियमात् पश्यामो बहवः पुरुषाः । किञ्च, बधिराः केचिन्मूकाः केचिदमूका: ।...। अतः कारणान्नियमात् पश्यामो बहवः पुरुषाः इति । अयुगपत्प्रवृत्ति (त्ते)श्च, इह लोके नानाविधा प्रवृत्तिर्दृष्टा, तद्यथा एको धर्मे, एकः कामे, एकोऽर्थे, अन्यः मोक्षे । अतः पश्यामो बहवः पुरुषा इति । इतश्च बहवः पुरुषाः त्रैगुण्यविपर्ययार्थम्, एकस्य कस्यचित् ब्राह्मणस्य त्रयः पुत्रा एकेनोत्पन्नाः तुल्यगोत्रस्वाध्यायाः । तत्र एकः सात्त्विकः एकः राजसः, एकस्तामसः । यद्येकः पुरुषः स्यादेकस्मिन् सात्त्विके सर्वे सात्त्विका स्युः ।.... । न चैकं भवति । अतः पश्यामो बहवः पुरुषा इति । त्रैगुण्यविपर्ययाद्' 'वासुदेवदर्शनात् मणिसूत्रदर्शनाच्च एकः पुरुषः " इंति तेन ( तन्न) । एवं तावत् पञ्चभिर्हेतुभिः पुरुषबहुत्वं सिद्धमित्याह ।।" - [जेसलमेरस्थपुस्तकसङ्ग्रहान्तर्गता] सांख्यकारिकावृत्तिः A | पृ० ३२ ॥ २. 'नानात्वादनेक: B II ३. पुरुष इति A ॥ ४. “वार्षगण्यस्यापि लक्षणमयुक्तमित्याह - श्रोत्रादिवृत्तिरिति । " - न्या० वा० ता० पृ० १३२ । " श्रोत्रादिवृत्तिरिति वार्षगणाः " -सांख्यका० युक्तिदी० पृ० ३९ । " श्रोत्रादिवृत्तिः प्रत्यक्षमनुमानमनुस्मृतिः ।" - सिद्ध० द्वा० १३|५|| ५. वर्तनाद् वृत्ति: B | तुलना - " तथा श्रोत्रादिवृत्तिः प्रत्यक्षम्, श्रोत्र - - त्वक् चक्षु-जिह्वा - प्राणानां
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org