________________
१२
सर्वसिद्धान्तप्रवेशकः
[जैनदर्शनम् ]
अथ जैनसिद्धान्तानुसारेण प्रमाण- प्रमेयस्वरूपावधारणायेदमुपदिश्यते । आह-यद्येवम्, ब्रूहि किं तत् प्रमाणं प्रमेयं च ? इति । तत्र प्रमेयं ‘“जीवा-ऽजीवा - ऽऽस्त्रैव-बन्ध-संवर- निर्जरा - मोक्षास्तत्त्वम्" [ तत्त्वार्थसूत्र० १।४] । तत्र सुख - दुःख - ज्ञानादिपरिणामलक्षणो जीवः । विपरीतस्त्वजीवः । " मिथ्यादर्शना - ऽविरति - प्रमाद - कषाय-योगा बन्धहेतवः, काय-वाङ् - मनः कर्म योग:, स आश्रवः शुभः पुण्यस्य" [तत्त्वार्थसूत्र ८।१, ६।१, ६ २, ६ ३] विपरीतः पापस्य । आश्रवकार्यं बन्धः । आश्रवविपरीतः संवरः । संवरफलं निर्जरा ।
,
४
अथ प्रमाणं प्रत्यक्षमनुमानमागमश्चेति । तत्र प्रत्यक्षम् - इन्द्रियमनोनिमित्तं विज्ञानं निश्चितमव्यभिचारीति लौकिकं व्यवहारतः प्रत्यक्षम्, अवध्यादि निश्चयतः । अन्यथाऽनुपपन्नाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम्, यथा धूमादग्निज्ञानम् । 'तपसः स्वर्गो भवति' इत्यागमः प्रमाणम्, निश्चिताऽविपरीतप्रत्ययोत्पादकत्वात्, चक्षुरादिवत् ।
इति जैनसिद्धान्तप्रवेशकः समाप्तः ॥
१. किमेतत् A ॥ २°ss श्रव - बन्ध-संवर - निर्जरा B ॥ ३. "अशुभः पापस्य'"-तत्त्वार्थसूत्र ६ |४ || ४. तत्र प्रमाणं B II ५. यद्यपि " प्रमाणं द्विधाप्रत्यक्षं परोक्षं च" [प्र० मी० १ १ ९, १० ] "विशदः प्रत्यक्षम् " [प्र० मी० १|१|१३] “अविशदः परोक्षम्, स्मृतिप्रत्यभिज्ञानोहानु-मानागमास्तद्विधयः " [प्र० मी० १२ १२] इति प्रमाणमीमांसादिश्वेताम्बरीयग्रन्थेषु प्रमाणविभाग उपलभ्यते, किन्तु स अकलङ्कोपज्ञ इति प्रतीयते । श्वेताम्बराणां प्राचीनतमेषु ग्रन्थेषु तु त्रिविधत्वं प्रमाणानां बहुत्र वर्णितं दृश्यते । दृश्यतां न्यायावतारः ( सिद्धसेनदिवाकरप्रणीतः) कारिका ४, ५, ६, ७ । न्यायावतार - - वार्तिकवृत्तिः पृ० ७७, ९९ । अनेकान्तजयपताकाटीका पृ० १४२, २१५ ॥ ६. चारि लौकिकं A ॥ ७. " साध्याविनाभुवो लिङ्गात् साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवत् ||४||" - न्यायावतारः ।। ८ ° इत्यागमं B । ९. समाप्तम् B नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org