________________
वैशेषिकदर्शनम् भूतं वर्षकर्म अभूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । अभूतमभूतस्य यथाअभूता श्यामता अभूतस्य घंटग्निसंयोगस्य लिङ्गम् । भूतं भूतस्य यथास्यन्दनकर्म सेतुभङ्गस्य । तथाऽपरमपि लिङ्गमुत्प्रेक्ष्यमनया दिशा यथा,जलप्रसादोऽगस्त्युदयस्य, तथा चन्द्रोदयः समुद्रवृद्धः कुमुदविकाशस्य चेत्यादि । तच्च 'अस्येदम्' इत्यादिना सूचितम्, यतो लिङ्गोपलक्षणायेदं सूत्रम्, न नियमप्रतिपादनायेति ॥
आहप्रत्यक्षलक्षणं किम् ? इति चेत्, तदाह-'आत्मे-न्द्रियमनोऽर्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्" [वै० सू० ३।१।१३] । अस्य व्याख्या-आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति । ततश्चतुष्टयसन्निकर्षाद् घट-रूपादिज्ञानम्, त्रयसन्निकर्षाच्छब्दे, द्वयसन्निकर्षात् सुखादिषु । एवं प्रत्यक्षमपि निर्दिष्टम् ॥
इति वैशेषिकमतं समाप्तम् ॥
१. घटादि B ॥ २. सेतुबंधस्य A B | "स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत् तद् द्रवत्वात् स्यन्दनम् । कथम् ? समन्ताद् रोधःसंयोगेनाऽवयविद्रवत्वं प्रतिबद्धम्..... । यदा तु मात्रया सेतुभेदः कृतो भवति तदा...सेतुसमीपस्थस्यावयवद्रवत्वस्य उत्तरोत्तरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः ।....तत्र च कारणानां संयुक्तानां प्रतिबन्धेन गमने यदवयविनि कर्म उत्पद्यते तत् स्यन्दनाख्यमिति"-प्र. भा० पृ० १६०-१६१ ॥ ३. यथा A ॥ ४. चेति B। "शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् ।.... लिङ्ग चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च शरदि जलप्रसादोऽगस्त्योदयस्येत्येवमादि । तत् सर्वम् 'अस्येदम्' इति सम्बन्धमात्रवचनात् सिद्धम् ।"-प्र० भा० पृ० १०४ । "इत्येवमादि' इति 'आदि' पदेन उदयादिरस्तादेलिङ्गमित्यूह्यम्" ।-प्र० भा० व्योमवती पृ० ५७३ ॥ ५. तत्प्रत्यक्षम् B॥ ६. मर्थेन A ।। ७. आत्ममन-इन्द्रिया-ऽर्थानां चतुर्णा संयोगात् । ८. आत्म-मन:-श्रोत्राणां त्रयाणां संयोगात् ।। ९. आत्म-मनसोर्द्वयोः संयोगात् ॥ १०. वैशेषिकतन्त्रः समाप्तः A ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org