________________
१०
सर्वसिद्धान्तप्रवेशकः "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहेति प्रत्ययहेतुः स समवायः" [प्र० भा० पृ० ५, १७१] । इति समवायपदार्थः ।
वैशेषिकसिद्धान्ते प्रमाणं वक्तव्यमिति चेत्, तदुच्यते- लैङ्गिकप्रत्यक्षे द्वे एवं प्रमाणे, शेषप्रमाणानामत्रैवान्तर्भावात् ॥
तत्र लैङ्गिकं प्रमाणं दर्शयन्नाह- अस्येदं कार्यम्, अस्येदं कारणं सम्बन्धि एकार्थसमवायि विरोधि चेति लैङ्गिकम् । अस्येदं कार्यम्, यथा विशिष्टो नदीपूरो वृष्टेः । अस्येदं कारणम्, यथा मेघोन्नतिर्वृष्टेरेव । सम्बन्धि द्विविधम्- संयोगि समवायि चेति । तत्र संयोगि यथाधूमोऽग्नेः । समवायि यथा-विषाणं गोः । एकार्थसमवायि द्विविधम्कार्यं कार्यान्तरस्य, कारणं कारणान्तरस्य चेति । तत्र कार्यं कार्यान्तरस्य यथा- रूपं स्पर्शस्य। कारणं कारणान्तरस्य यथा- पाणिः पादस्य । विरोधि चतुर्विधम्- अभूतं भूतस्य, भूतमभूतस्य, अभूतमभूतस्य, भूतं भूतस्येति । तत्र अभूतं वर्षकर्म भूतस्य वाय्वभ्रसंयोगस्य लिङ्गम् । तथा
१. इहेदंप्रत्यय' A । "इहेदमिति यत: कार्यकारणयोः स समवायः" वै० सू०७२।२६। यद्यपि मुद्रिते प्रशस्तपादभाष्ये 'इहप्रत्ययहेतुः' इत्येव पाठ उपलभ्यते, किन्तु वैशेषिकसूत्रोपस्कारे "तदुक्तं पदार्थप्रवेशाख्ये प्रकरणेअयुतसिद्धानामाधार्या-ऽऽधारभूतानां यः सम्बन्ध इहेति प्रत्ययहेतुः स समवायः [प्र० भा०] इति" (पृ० १९३) इति प्रशस्तपादभाष्यपाठ उद्धतोऽस्तीति ध्येयम् ॥ २. यद्यपि “प्रत्यक्षानुमानागमाः प्रमाणानि" इति प्रमाणमीमांसायां (पृ० ७) न्यायावतारवृत्तौ (पृ० ९) स्याद्वादरत्नाकरादिषु (पृ० ३१३, १०४१) च वैशेषिकसम्मतत्वेनोक्तं तथापि तद् व्योमशिवादेरेव व्याख्यापरम्परानुसारेण ज्ञेयम् (दृश्यतां प्रशस्तपादभाष्यस्य व्योमवती व्याख्या० पृ० ५५४, ५८४, ५८७) । अन्येषां तु वैशेषिकाणां प्रमाणद्वित्वमेवाभिमतमिति ध्येयम् ॥ ३. “अस्येदं कार्य कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम् ।"-वै० सू० ९।१८।। ४. "संयोगि समवाय्येकार्थसमवायि विरोधि च । कार्यं कार्यान्तरस्य कारणं कारणान्तरस्य विरोध्यभूतं भूतस्य भूतमभूतस्य अभूतमभूतस्य भूतं भूतस्य ।"वै० सू० ३।१।८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org