SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३४४ હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા સાંખ્યયોગ દર્શન આત્મા(પુરુષ)ની સાથે પ્રકૃતિનો, ન્યાય-વૈશેષિક દર્શન પરમાણુઓનો, બ્રહ્મવાદી અવિદ્યા(માયા)નો, બૌદ્ધ દર્શન ચિત્તનામ)ની સાથે રૂપનો, અને જૈન દર્શન જીવની સાથે કર્માણુઓનો સંસારકાલીન વિલક્ષણ સંબંધ માને છે. આ બધી માન્યતા પુનર્જન્મ અને મોક્ષના વિચારમાંથી જ ફલિત થઈ છે. ५. ८१ 'अथ प्रकाशस्वभावत्व' - तुलना – अत एव क्लेशगणोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः । आगन्तुकप्रत्ययकृतत्वेनादृढवात् । नैरात्म्यज्ञानं तु स्वभावत्वात् प्रमाणसहायत्वाच्च बलवदिति तुल्येऽपि विरोधित्वे आत्मदर्शने प्रतिपक्षो व्यवस्थाप्यते । ..... नापि ताम्रादिकाठिन्यादिवत् पुनरुत्पत्तिसम्भवो दोषाणाम्, तद्विरोधिनैरात्म्यदर्शनस्यात्यन्तसात्म्यमुपगतस्य सदाऽनपायात् । ताम्रादिकाठिन्यस्य हि यो विरोधी वह्निस्तस्य कादाचित्कसन्निहितत्वात् काठिन्यादेस्तदभाव एव भवतः पुनस्तदपायादुत्पत्तिर्युक्ता । न त्वेवं मलानाम् । अपायेऽपि वा मार्गस्य भस्मादिभिरनैकान्तान्नावश्यं पुनरुत्पत्तिसम्भवो दोषाणाम्, तथाहि – काष्ठादेरग्निसम्बन्धाद् भस्मसाद्भूतस्य तदपायेऽपि न प्राक्तनरूपानुवृत्तिः तद्वद् दोषाणामपीत्यनैकान्तः। किञ्चागन्तुकतया प्रागप्यसमर्थानां मलानां पश्चात् सात्मीभूतं तन्नैरात्म्यं बाधितुं कुतः शक्तिः, न हि स्वभावो यत्नमन्तरेण निवर्तयितुं शक्यते । न च प्राप्यपरिहर्तव्ययोर्वस्तुनोर्गुणदोषदर्शनमन्तरेण प्रेक्षावतां हातुमुपादातुं वा प्रयत्नो युक्तः । न च विपक्षसा(न चाविपर्यस्ता ?)त्मनः पुरुषस्य दोषेषु गुणदर्शनं प्रतिपक्षे वा दोषदर्शनं सम्भवति, अविपर्यस्तत्वात् । न हि निर्दोषं वस्त्वविपर्यस्तधियो दुष्टत्वेनोपाददते, नापि दुष्टं गुणवत्त्वेन । drqसंग्रsilet, पृ. ८७३-४. पृ. ८२ 'अमूर्ताया अपि' - तुलना - अमूर्ताया अपि चेतनाशक्तेमदिरामदनकोद्रवादिभिरावरणोपपत्तेः । प्रमेयरत्नमाला, पृ. ५६. ५. ८२ 'वर्षातपा' - तुलना – तदुक्तम् - वर्षातपा । भामती, २.२.२६. न्यायमंरी, पृ. ४४3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy